________________ 124 सटीकाद्वैतदीपिकायाम् सर्गाद्यकार्योपादानत्वात, ब्रह्मवत् / कार्यस्य सर्गाद्यकालीनकार्योपादानत्वासम्भवान्नाप्रयोजकत्वम् / उपादानत्वं च परिणामितयाऽज्ञानस्य ब्रह्मणः कार्यसत्तादिरूपत्वेन / जडस्य सत्यानृतोभयात्मकत्वाद् उभयमप्युपादानमिति नासिद्धिः। न वा दृष्टान्तः साधनविकलः। न चानादित्वेऽज्ञानस्य निवृत्त्यनुपपत्तिः, अनादिभावस्यान्यत्र निवृत्त्यदर्शनादिति वाच्यम् / तर्हि प्रागभावस्यापि त्वदभिमतस्य न निवृत्तिः स्यात् / अज्ञानस्य ब्रह्मणो वा सर्गाद्यकार्योपादानत्वमसंप्रतिपन्नमित्याशङ्क्याह-- उपादानत्वं चेते। सर्गाद्यकार्य जडोपादानकं भावकार्यत्वात् घटादिवदिति अनुमानाल्लाघवानुगृहीताद् ब्रह्म नजानामीत्यनुभूयमानमेकमेवाज्ञानं तदुपादानतया सिद्ध्यति / तथा मायाविद्ययोरभेदस्य वक्ष्यमाणत्वात् “मायां तु प्रकृति विद्यात्' इति श्रुते रज्ञानोपादानत्वसिद्धिः / नामरूपात्मकप्रपञ्चस्व श्रुतज्ञाननिवर्त्यत्वान्यथानुपपत्तेश्च तत्तिद्धिः। एवं ब्रह्मापि तदुपादानम् / विमतं ब्रह्मोपादानकं तत्स्वभावानुरक्तत्वे सति तत्कार्यत्वात् मृत्स्वभावानुरक्तघटादिवदित्यनुमानात्तत्सिद्धिः / न चासिद्धिः / जगतः सदनुरक्ततया प्रतीतेः ब्रह्मातिरिक्तसत्तायां मानाभावात् / ब्रह्मगश्च “सदेव सोभ्येदमग्र आसीत् / " "तत्सत्यम्" / "अस्ति ब्रह्मेति चेद्वेद'' इत्यादिश्रुतिभिः सद्रूपत्वेन सिद्धत्वात् / एवं "सोऽकामयत बहु स्यां प्रजायेयेति" "सच्च त्यच्चाभवत्” “तदात्मानं स्वयमकुरुत" इत्यादिश्रुतेरात्मविज्ञानात्सर्वविज्ञानप्रतिज्ञानुपपत्तेश्च ब्रह्मोपादानत्वसिद्धिरिति नासिद्धिर्न वा साधनवैकल्यमिति भावः। न ब्रह्मणो जगदुपादानत्वे तस्मिन्सतिज्ञानेनापि जगतो निरन्वयनाशो न स्यादित्याशय परिणामिनाशादेव कार्यस्य निरन्वयविनाशो न त्वधिष्ठानविनाशादित्यभिप्रेत्याज्ञानस्य परिणामितयोपादानत्वं ब्रह्मणस्त्वधिष्ठानतयेति विभागमाह-परिणामितयेति / धर्मिसमसत्ताको ह्यन्यथाभावः परिणामः प्रपञ्चस्यानिर्वचनीयाविद्यासमसत्ताकतदन्यथाभावत्वात् स तत्परिणामः / ब्रह्मसमसत्ताकत्वाभावात्तदन्यथाभावोऽपि प्रपञ्चः स्वसत्तास्फूर्त्यात्मत्मिकब्रह्मविवर्त एव / अतत्वतोऽन्यथाभावत्वस्य विवर्तत्वादित्यर्थः। उभयोपादाने हेतुमाह-जडस्येति / घटादिगतनामरूपयोरज्ञानपरिणामतयाऽनतत्वात्सत्तादेश्चाधिष्ठानस्वरूपतया सत्यत्वादुभयमप्युक्तविधयोपादानमित्यर्थः / यदपि चोक्तमज्ञानस्यानादिभावत्वे ज्ञाननिवर्त्यत्वं न स्यादिति तदपि प्रतिबन्दीग्रहेण दूषयति - न चेत्यादिना / अभावान्तरेषु नाशाभावेऽपि प्रमाणबलात्प्रागभावे सोऽभ्युपेयत इत्याशक्याज्ञानेऽपि प्रामाणिकत्वात्सोऽभ्युपेयतामित्याह-अन्यत्रेति / नतु ज्ञानेनाज्ञानं निवृत्तमित्या