________________ द्वितीयः परिच्छेदः 123 प्रसङ्गात् / जगदवभासस्यात्मस्वरूपत्वात् / तथा च श्रुतिः। "तमेव भान्तमनुभाति सनम, तस्य भासा सर्वमिदं विभाति" इति / आत्मनोऽपि कल्पितत्वे तदधिष्ठानानिरूपणात सर्वभ्रमाधिष्ठानचिद्रूपस्यैव च आत्मत्वात् / कल्पितस्य बाधनियमात आत्मनश्च तदभावात् / प्रत्युत सर्वभ्रमबाधावधित्वात् / तथा च श्रुतिः "अथात आदेदो नेति नेति न ह्येतस्मादिति नेति अन्यत्परमस्ति" इति / कल्पिताज्ञानस्यानादित्वे कि प्रमाणमितिचेत् न, ब्रह्मविषयमज्ञानमनादि आत्मनः कल्पितत्वे तदधिष्ठानमन्यनिरूपणीयम् / इतरथा तस्य कल्पितत्वायोगात् / तच्च जडं स्वप्रकाशात्मकं वा ? आये तस्य दृश्यतया कल्पितत्वादधिष्ठानत्वानुपपत्तिरित्यभिप्रेत्याह-आत्मनोऽपीति // द्वितीये तस्यैवास्माकं मते आत्मत्वान्न तस्याकल्पिततेत्याह-सर्वेति / किञ्च कल्पितत्वस्य बाधव्याप्तत्वादात्मनो बाधकप्रमाणाभावान्न कल्पिततेत्याह-कल्पितस्येति / निरवधिकबाधायोगाच्चेति चार्थः / सर्वेषां भ्रमाणां बाधावधित्वेनाबाध्यत्वमेवात्मन्यावश्यकमित्याह-प्रत्युतेति / आत्मन एव सर्वबाधावधित्वे मानमाह-तथा चेति / अथ = सप्रपञ्चमूर्तामूर्तनिरूपणानन्तरम् अतः यस्मात्तत्परिज्ञानात् निरतिशयं श्रेयो नास्ति अतः / नेति नेतीति आदेशः-आदिश्यत इत्यादेशः / नेतिनेतीत्युपदिश्यमान आत्मैव ज्ञेय इत्यर्थः / अत्र मूत्तीमूर्तयोः स्थूलसूक्ष्मप्रपञ्चयोर्वा निषेधाय वीप्सा / नेत्यादेशार्थमेवाहनहीति / एतस्मादात्मनोऽन्यन्न ह्यस्तीति नेतीत्युच्यते / किं तहि प्रपञ्चवदात्मापि नास्ति ? नेत्याह--नेतीति / अन्यद् दृश्यप्रपञ्चविलक्षणं परं-सर्वभ्रमबाधावधिभूतमात्मस्वरूपमस्तीति श्रुत्यर्थः / कल्पिताज्ञानस्यानादित्वे मानाभावान्न तस्यात्मवदकार्यत्वमिति शङ्कतेकल्पितेति / मानाभावोऽसिद्ध इति दूषयति-न ब्रह्म वेषयमिति / ब्रह्म न जानामीत्यनुभूयमानमज्ञानमित्यर्थः / शुक्ति न जानामीत्यनुभूयमानावस्याज्ञाने भागासिद्धिवारणाय च ब्रह्मविषयमित्युक्तम् / प्रागभावस्य निरस्तत्वान्नव तस्य पक्षता, येन तत्र भागासिद्धिः स्यात्। मृदादौ व्यभिचारवारणाय-सर्गाद्येति / हेतोरप्रयोजकता निराकरोति-कार्यस्येति / आद्यकार्योपादानस्य कार्यत्वे तस्याप्युपादानान्तरमावश्यकं, तस्यापि कार्यत्वं चेदुपादानानवस्थापातात् प्रलये कार्यद्रघमात्रविलयेन तदसंभवाच्च तस्यानादित्वं चेत्सर्गाद्यकालीनकार्योपादानाज्ञानस्यैवानादित्वसंभवात् / तत्कार्यत्वे तदुपादानान्तरकल्पने गौरवात्तदनादित्वमावश्यकमिति भावः /