________________ 122 सटीकाद्वैतदीपिकायाम् स्वयधिकरण्यानधिकरणस्य वा स्वसमानकालीनात्यन्ताभावस्य प्रतियोगित्वलक्षणमिथ्यात्वस्यानादित्वेनाविरोधात् / ननु कल्पितस्य दोषजन्यत्वं नियतमिति चेत् / तहि परमार्थस्यापि गुणजन्यत्वं नियतमिति तव तद्विरहान्नित्यमात्रविलोपप्रसङ्गः। ननु कार्य कारणजन्यं, तनिवृत्तौ निवर्तते / पारमार्थिकं च सर्व न कार्य, किन्तु यथाप्रमाणं किञ्चिदेवेति चेत् / तहि कल्पितमपि सर्न दोषजन्यमिति न नियमः, किन्तु ययानुभवं कार्यमेव कल्पितं दोषजन्यमिति तुल्यम् / दोषजन्यत्वाभावेऽपि कल्पितत्वे किमात्माऽपि कल्पितो न भवेदिति चेत् / परमार्थस्यापि जन्यत्वे किमित्यात्मापि जन्यो न भवेदिति समम् / किश्च कल्पितत्वे हि जडत्न प्रयोजकम् / तच्च दोषाजन्यत्वेऽप्यज्ञानादेरक्षतम् / न च परीत्यमात्मनः सत्यज्ञानाद्यात्मतया श्रुत्यादिभिः प्रमितत्वात् / आत्मनोऽपि कल्पितत्ने जगदान्ध्य प्रति प्रतियोगित्वं मिथ्यात्वमिति / अधिष्ठानातिरिक्तारोप्याभाववादिमते, अधिष्ठानमेवारोप्याभाव इति मते तु स्वस्याज्ञानादेर्यद् व्यधिकरणं घटत्वादि तत्र स्ववैयधिकरण्यं नाम धर्मः तस्याधिकरणं न भवति योऽत्यन्ताभावोऽधिष्ठानरूपस्तं प्रति प्रतियोगित्वं मिथ्यात्वं; पराभिमतसत्यप्रतियोगिकात्यन्ताभावस्य प्रतियोगिव्यधिकरणत्वनियमेन तदनधिकरणत्वायोगान्मिथ्यावस्तुन एवेदं लक्षणम् / एतच्चाज्ञानस्य नानादित्वविरोधीत्यर्थः / __ अज्ञानस्य मिथ्यात्वे रजतादिवघोषजन्यत्वाभावेनानादित्वासम्भव इति / शङ्कते-नन्विति / कल्पितस्य दोषजन्यत्वनियमं प्रतिबन्धा दूषयति -तहीति / गुणजन्यत्वमिति दोषाभावजन्यत्वं दोषासहकृतसामग्रीजन्यत्वं वेत्यर्थः / ननु कारणं नाम व्यापकविशेषः। तदभावे तद्व्याप्पकार्यस्यैवाभावो न नित्यस्येति शङ्कते–नन्विति / तर्हि परमार्थत्वाविशेषात्सर्वस्यापि कार्यत्वं किन्न स्यादित्याशङ्क्याहपारमार्थिकं चेति / मिथ्यात्वेऽपि कार्याकार्यविभागासम्भवात्कार्यस्यैव दोषजन्यत्वनियमो नाकार्यस्याज्ञानादेरिति साम्यमाह-तीति / दोषाजन्यस्यान्यज्ञानादेमिथ्यात्वेऽतिप्रसङ्गं शङ्कते - दोषेति / एतदाभाससाम्येन परिहरति -परमार्थस्येति / अपि चाज्ञानादेश्चैतन्ये कल्पितत्वमन्तरेण दृश्यत्वरूपजडत्वस्यानुपपत्तेस्तदेव कल्पितत्वे प्रयोजक, न दोषजन्यत्वमित्याह-किञ्चेति / ननु लाघवाद् ग्रूपत्वमेव कल्पितत्वे प्रयोजकमिति तद्रूपात्मन एव मिथ्यात्वं किं न स्यादित्यत आह-न चेति / आत्मनो मिथ्यात्वे तस्य स्वप्रकाशचिद्रूपत्वायोगात्तदतिरिक्तचैतन्यस्याभावाज्जगद्व्यवहारविलोपापात इत्याह -- आत्मनोऽपीति / जगदवभासस्यात्मरूपत्वे मानमाह-तथा चेति /