________________ द्वितीयः परिच्छेदः 121 तस्मात् प्राक्कालीनोऽभावः प्रागभाव इति कालभेदेनाधिकरणसंसर्ग्यत्यन्ताभावः प्रागभावशब्दार्थ इति न ज्ञाननिवर्त्यप्रागभावोऽस्तीति न तत्रातिव्याप्तिः। नाप्यविद्यासम्बन्धेऽतिव्याप्तिः / अविद्यानिवृत्त्येव तन्निवृत्तः। अनादिपदं च प्रत्यभिज्ञानाश्यसंस्कारे स्वस्मिंश्चातिव्याप्तिनिवृत्त्यर्थम् / ज्ञाननिवर्त्यत्वं वा लक्षणम् / अस्तु वा सर्वमेव भावत्वं चोपादानत्वं विवक्षितमिति नाविद्यासम्बन्धेऽतिव्याप्तिः। नापि कल्पितत्वादज्ञानस्यानादित्वासम्भवः / स्वसमानाधिकरणस्य तत्प्रागभावेति / कृतब्रह्महत्याप्रायश्चित्तस्य मुनुक्षोर्ब्रह्महत्यासाध्यदुःखप्रागभावानामावश्यकत्वात्तत्क्षयाय तत्प्रतियोगिजनकब्रह्महत्याऽनुष्ठेया स्यात् / इतरथा तत्क्षयासम्भवेन मोक्षशास्त्रानारम्भप्रसङ्गादिति प्रागभावकारणताभने कथितमित्याह--अमादीति / पराभिमतप्रागभावे साधकाभावाबाधकसद्भावाच्च सामयिकात्यन्ताभाव एव प्रागभावशब्दार्थः, तस्य परमते ज्ञानानिवर्त्यत्वादस्मन्मतेऽप्यविद्यानिवृत्त्यैव निवृत्तेस्तत्राज्ञानलक्षणस्य नातिव्याप्तिरित्याह--तस्मादिति / नन्वविद्यात्मसम्बन्ध-जीवेशभेदादेरनादित्वात् ज्ञाननिवर्त्यत्वाच्च तत्रातिव्याप्तिरित्याशय तस्य ज्ञाननिवर्यत्वमसिद्धमिति दूषयति--नापीति / तहिं शुक्तिरजतादेरप्पविद्यानिवृत्त्यैव निवृत्तेरनादिपदवैयर्यमित्याशक्याह--अनादीति / ज्ञाननिवर्त्यत्वं नाम ज्ञानजन्यध्वंसप्रतियोगित्वम्। तच्च प्रत्यभिज्ञानाश्यसंस्कारे स्वजन्यध्वंसप्रतियोगिनि ज्ञाने चास्तीति तत्रातिव्याप्तिवारणायानादिपदमित्यर्थः। यहा ज्ञानत्वेन ज्ञानजन्यध्वंसप्रतियोगित्वमज्ञानलक्षणम् / प्रत्यभिज्ञायाः फलतया संस्कारध्वंसजनकत्वात् ज्ञानस्य प्रतियोगितया स्वध्वंसजनकत्वान्न तत्रातिव्याप्तिरित्यभिप्रेत्याह--ज्ञाननिवय॑त्वं वेति / ___ अनादिभावत्वे सति ज्ञाननिवर्त्यत्वमज्ञानत्वमित्याचार्यलक्षणमपि साध्वित्याह-- सर्वमेवेति / - सर्वत्र साक्षात्परंपरासाधारण्येन ज्ञाननिवर्त्यत्वं विवक्षितम् / तथा चाविद्याकार्येऽतिव्याप्तिपरिहारायानादिपदम् / आत्मन्यतिव्याप्तिवारणाय ज्ञाननिवर्त्यपदम् / अत्र यद्यपि ज्ञानपदमनपेक्षितं तथाप्यनन्तरोक्तप्रकारेण ज्ञाननिवर्त्यत्वमेव लक्षणान्तरमिति सूचयितुं तदिति द्रष्टव्यम् / एवमपि प्रागभावाभावाद् भावपदव्यावाभावात्त. द्वैयर्थमित्याशक्याह-भावत्वं चेति / एवमतिव्याप्तिं परिहत्यासम्भवं परिहरतिनापीति / किमज्ञानस्य कल्पितत्वं कार्यत्वं मिथ्यात्वं वा ? नाद्यः। असिद्धेः। द्वितीये न विरोध इत्याह--स्वसमानेति / स्वसमानाधिकरणस्य - स्वसमानकालीनस्यात्यन्ताभावं