________________ 120 सटीकाद्वैतदीपिकायाम् प्रागभावस्वीकारे बाधकम कि चानादिप्रागभावाङ्गीकारे प्रागभावानामपरिमितत्वेऽनिर्मोक्षप्रसङ्गः / तत्क्षयं विना मोक्षायोगात् / परिमितत्वे वा त्वदभिमतमोक्षशास्त्रानारम्भप्रसङ्गात् / तेन विनापि निखिलदुःखप्रागभावक्षयात् त्वदभिमतमोक्षसम्भवात् / न च शास्त्रा. रम्भे योगाभ्यासात्सार्वज्ञयं, ततः समाहृत्य भोगान् भुजानस्य झटिति प्रागभावक्षय इति न शास्त्रारम्भवैयर्थ्यमिति वाच्यम् / दैवादवशिष्टद्विवादिप्रागभावस्य शास्त्र सार्वघ्यादीनां व्यर्थत्वात् / विषयान् भुञ्जानस्यापि क्रमेण मुक्तौ सम्भवन्त्यामावश्यकत्वाच्च यावत्प्रतियोगिदुःखानां मुाथप्रवृ त्त्यनुपपत्तेश्च / न ह्यनादिपरिमिताः प्रागभावाः शास्त्रानारम्भान्न क्षीयन्ते तेनैवक्षीयन्ते इति नियन्तुं शक्यते / दुःखप्रागभावाभावे मिथ्याज्ञानकर्मानुवृत्तेरकिञ्चित्करत्वात्, तत्प्रागभावक्षये देहे सत्यपि मिथ्याज्ञानाद्यसम्भवाच्च / अनादिप्रागभावाभ्युपगमे मुमुक्षोर्ब्रह्महत्याद्यनुष्ठानं वा मोक्षसाधनाननुष्ठानं वा स्यादित्यप्युक्तम् / किं प्रागभावाः परिमिताः उतापरिमिताः ? / अन्त्ये दोषमाह--प्रागभावानामिति / अपरिमितानां दुःखप्रागभावानामवसानासम्भवेन तदसहकृतदुःखध्वंसस्य तादृशसुखस्य वा मोक्षस्यासंभवादित्यर्थः / आधे घटादिप्रागभावानामिव सर्वेषामपि दुःखप्रागभावानां प्रतियोग्युत्पादकेनैव विनाशसम्भवात्तदसहकृतदुःखध्वंसस्यायत्नसिद्धत्वान्मोक्षशास्त्रानर्थक्यप्रसङ्ग इत्याह-परिमितत्वे इति / ननु शास्त्रारम्भे आत्मानात्मतत्त्वज्ञानं तत आत्मनि चित्तसमाधानरूपयोगप्रवृत्तिः, ततो धर्म्यविशेषात्सार्वज्यं, ततः कायव्यूहसंपादनेन युगपदेव निखिलसुखदुःखानुभवात्तत्प्रागभावक्षये झटिति मोक्षसिद्धिरिति शङ्कामपवदति-न चेति / यस्य मुनुक्षोदित्रा दुःखप्रागभावा अवशिष्टाः तस्य कायव्यूहवैयर्थेन तदर्थं शास्त्रारम्भवैयर्थ्यापातादिति हेतुमाह-दैवादिति / किं च दुःखप्रांगभाववत् सुखप्रागभावानामपि बहुशः सत्त्वाद्दीर्घकालसुखभोगानुरोधेनैव दुःखप्रागभावक्षयसम्भवात् कायव्यूहेऽपि यावद्दुःखोत्पत्तेरावश्यकत्वाच्च न तदर्थं मुमुक्षुप्रवृत्तिरुचितेत्याहविषयानिति / ननु मुनुक्षूणां मोक्षशास्त्रप्रामाण्यायैव तदारम्भानन्तरमेव दुःखप्रागभावानां क्षयो न तत्पूर्वमिति कल्यतामित्याशक्य तत्प्रामाण्यस्यान्यथैवोपपत्तैमॆवमित्यभिप्रेत्याहन हीति / ननु दुःखप्रागभावक्षयस्यान्यतः सम्भवेऽपि मिथ्याज्ञानादिनिवृत्तये शास्त्रारम्भ इत्याशक्य तस्मिन् स्थितेऽप्यनर्थासम्भवान्न तन्निवृत्तिः साधनीयेत्याह-दुःखेति / किं च दुःखप्रागभाववन्मिथ्याज्ञानप्रागभावानामपि परिमितत्वात्प्रतियोग्युत्पादकैरेव तेषां क्षासम्भवात्तत एव मिथ्याज्ञानानानुपरमोपपत्तौ तदर्थ न शास्त्रमारम्भणीयमित्याह--