SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 119 ननु प्रागभावानङ्गीकारेऽत्यन्ताभावादौ का तवास्थेति चेत् / न, भूतले घटो नास्ति तन्तुषु पटो नष्ट इत्यनन्यथासिद्धाधाराधेयबुध्या प्रतीतिवलक्षण्येन कारणसापेक्षत्वनिरपेक्षत्वाभ्यां च भिन्नयोस्तयोरावश्यकत्वात् / भावान्यतराधारत्वनियमेन घटस्वरूपध्वंसविनाशकाले घटस्तत्प्रागभावो वा स्यात् घटत द्विनाशयोरनुगतध्वंसत्वानिरूपणाच्च / नचोत्पत्तिमत्त्वमेव ध्वंसत्वम् / उत्पत्तेध्वंसगभत्वेनान्योन्याश्रयादित्युक्तत्वात् / द्वितीये तस्यापि विनाशस्यासावेव प्रागभावः अन्यो वा ? नाद्यः / सामग्रीभेदाभावेन प्रागभावनाशघटयोर्भेदायोगात् / न च प्रागभावविनाशस्य घटजन्यत्वात्सामग्रीभेद इति वाच्यम् / तथात्वे घटोत्पत्तिकालीनप्रागभावेनानन्तरमपि घटोत्पत्त्यापातात् / द्वितीये तस्याप्यन्यो विनाशः तस्याप्यन्यः प्रागभाव इत्यप्रामाणिकानन्तप्रागभावतद्ध्वंसमाला स्यादिति भावः / नन्वेवं सति शुक्त्यादौ रजताद्यभावप्रतीतिवद्भूतलादौ घटाद्यभावप्रतीतेरप्यधिकरणविषयतयाऽन्यथासिद्धिसंभवात्तव भूतलाद्यतिरिक्तघटाद्यत्यन्ताभावो ध्वंसो वा न सिद् ध्येत् / तत्सिद्धावप्यत्यन्ताभावस्यैव विनाशप्रतीतिविषयत्त्वसंभवात्प्रागभाववत्तदतिरिक्तध्वंसो न स्यादित्यभिप्रेत्य शङ्कते-नन्विति / शुक्त्यादौ रजताद्यभावस्य धर्मिसमानसत्ताकस्य प्रतियोगिसमानसत्ताकस्य वाऽसंभवात्तदधिष्ठानमेव तदभावधीविषयः, भूतलादौ तु घटाद्यभावस्य धर्मिप्रतियोगिसमसत्ताकस्य संभवात्तस्य तदाश्रितत्वबुद्धेरसति बाधकेऽप्रामाण्यायोगाद् भूतलाद्याश्रयौघटाद्यत्यन्ताभावध्वंसावावश्यकाविति परिहरति-न भूतल इति / तथापि प्रागभाववदत्यन्ताभावातिरिक्तो ध्वंसो न स्यादिति यदुक्तं तत्राहप्रतीति / भिन्नयोरिति तन्तुभूतलादिनियताधिकरणभिन्नयोः परस्परभिन्नयोश्च ध्वंसात्यन्ताभावयोरावश्यकत्वादित्यर्थः / नष्टो नास्तीति प्रतीत्योरनुभूयमानवैक्षण्यस्य विषयवैलक्षण्यं विनाऽनुपपत्तेस्तद्विषयांसात्यन्ताभावयोर्भेद आवश्यकः। तथा ध्वंसस्य मुद्गरप्रहारादिकारणसापेक्षत्वादत्यन्ताभावस्य च तदनपेक्षत्वात्तयोर्भेदः / न च विनाशबुद्धेःसमयभेदेन प्रतियोग्युपादानसंबन्ध्यत्यन्ताभाव एव विषयः। समयविशेषे तस्योपादानसंबन्ध एव कारणमपेक्षते नत्वभाव इति वाच्यम्,स्वरूपसंबन्धस्य सम्बन्धिद्वयात्मकत्वेन संबन्धिनोः सतोः स्वतः कारणापेक्षाऽयोगात् / तदतिरिक्तसम्बन्धस्याभावस्य भावस्य वाऽयोगात् अनिर्वचनीयसम्बन्धस्यापि पञ्चमप्रकाराविद्यानिवृत्तावसम्भवात् / अन्वयव्यतिरेकाभ्यामभावस्यैव कारणजन्यत्वाच्च / इतरथा घटादेरपि दण्डादिना मृदादौ सम्बन्ध एव जन्यत इति तस्याकार्यत्वापातादिति भावः / एतच्चातिरिक्ताभावमभ्युपेत्योक्तम् / वस्तुतस्तु सर्वोऽप्यभावो ब्रह्मवेत्यनिर्वचनीयवादे वक्ष्यति / एवं लक्षणादेरसम्भवात्प्रागभावासिद्धिमुक्त्वा तदभ्युपगमे बाधकमाह-किञ्चेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy