SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सटोकाद्वैतदीपिकायाम् स्वरूपविशेषेणात्मा न प्रागभावप्रतियोगी तैनवाकार्यमिति वक्तुम् शक्यत्वाच्च / किं चैवं ध्वंसोऽपि कार्य न स्यात् तत्प्रागभावासम्भवात् / न चैवमुत्पन्नस्य पुनरुत्पत्तिप्रसङ्गः। निरस्तत्वात्। तत्स्वरूपमपि दुनिरूपम्। अदृष्टानाधारसमयावृत्तित्वस्य चरमकार्यप्रागभावेऽभावात्, अत्यन्ताभावे सत्त्वाच्च / विनाशश्च दुनिरूपः / यिकात्यन्ताभावरूपत्वमभ्युपेयमिति त्वदभिमतप्रागभावासिद्धिः स्यात् / तस्मात् ध्वंसप्रागभावानिरूपणात्तत्कार्यत्वानुपपत्तिरिति भावः। प्रागभावाभावे उत्पन्नस्य पुनरुत्पत्त्यापत्तिः तदतिरिक्तसामग्रयाः सत्त्वादिति चोद्यमनुब्यवसायभङ्गे निरस्तमित्याह-न चैवमिति / एवं प्रागभावे प्रमाणं निराकृत्य तल्लक्षणमपि निराकरोति-तत्स्वरूपमिति / चरमकार्येति / चरमध्वंस एव चरमकार्य, तस्य प्रागभावस्तव मते प्रतियोग्येव / तथा च फलविनाश्यस्यादृष्टस्य तदुत्पत्त्यैव नष्टत्वात्तत्स्थितिकालेऽदृष्टाभावात्तस्मिन्नदृष्टानाधारसमयानाधारत्वं नास्तीत्यव्याप्तिरित्यर्थः / किं च तादृशकालप्रतियोगिकान्योन्याभावस्य तत्रावृत्तस्तत्रातिव्याप्तिः / न च कालभेदः काले वर्तते / तदनेकत्वापातात् अदृष्टानाधारसमये सूर्यगत्याधुपाध्यभावेनौपाधिकभेदस्यापि तत्राऽभावात् / परमते भेदस्यौपाधिकत्वानिरुक्तेश्च / स्वमतेन घटाद्यत्यन्ताभावादावतिव्याप्तिमाह -अत्यन्ताभाष इति / एतच्च ध्वंसाऽन्योन्याभावयोरप्युपलक्षणम् / न च तेषां नित्यतयाऽदृष्टानाधारसर्व मुक्तिसमयेऽपि सत्त्वान्न तत्रातिव्याप्तिरिति वाच्यम् / तेषां नित्थत्वे मानाभावात् / तदनित्यत्वस्य चाभावत्वहेतुनैव प्रागभावदृष्टान्तेन साधयितुं शक्यत्वात् / न चाप्रयोजको हेतुः। तन्नित्यत्वे मानाभावलक्षणानुकूलतर्कस्याद्वैतश्रुतिप्रामाण्यभङ्गरूपविपक्षबाधकतर्कस्य च सत्वात् / न च तद्विनाशे कारणाभावः नामरूपलयहेतोर्ब्रह्मज्ञानस्यैव तन्नाशकत्वादिति भावः / यद्वा परमत एव कालसमवेतगुणाद्यत्यन्ताभावेऽतिव्याप्तिः यत्र येन सम्बन्धन यद्वर्त्तते तत्र तेन सम्बन्धेन तदभावाभ्युपगमे भावाभावयोविरोधो दत्तोदक एव स्यात् / वस्तुनो द्वैरूप्यायोंगाच्च कालस्य गुणत्वावच्छिन्नप्रतियोगिकात्यन्ताभाववत्त्वे द्रव्यत्वानुपपत्तेः, कालस्य द्रव्यात्वाद्यभाववत्त्वे तस्य गुणादिभ्यो भेदासिद्धेश्चेति भावः / किं च त्वदभिमतप्रागभावस्य विनाशोऽस्ति न वा ? न चेत्तस्य प्रागभावत्वानुपपत्तिरित्यभिप्रेत्याद्यं दूषयति-विनाशश्चेति / कि तत्ध्वंसः प्रतियोग्येव तदतिरिक्तो वा ? नाद्यः / अभावत्वव्याप्यध्वंसत्वस्य भावेष्वसम्भवात् / ध्वंसानधिकरणकालस्य प्रतियोगितत्प्राग
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy