________________ द्वितीयः परिच्छेदः 137 तस्मान्न पराभिमताभावोऽज्ञानानुभवविषयः / प्रागभावस्यानुभवासंभवादपि नाज्ञानानुभवस्तद्विषयः / जनिष्यमाणज्ञानानां विशिष्यानुभवासंभवात् / न च घटज्ञानं सामान्यज्ञानमेव तद्विशेषज्ञानाभावज्ञानहेतुः। प्रतियोगितावच्छेदकाकारज्ञानस्याभावधीहेतुत्वात् / अन्यथाऽनिप्रसङ्गात् सामग्र्यन्तरकल्पने गौरवात्। ननु प्रतियोगिनियत्प्रकारकमभावज्ञानं तत्प्रकारकज्ञानमेवाभावधीहेतुः, न तु प्रतियोगितावच्छेदकधर्मवत्तया प्रतियोगिज्ञानम् / अन्यथा सामान्यलक्षणाप्रत्यासत्यनङ्गीकारमते वायौ रुपाभावाननुभवप्रसङ्गादिति चेत् / न, परमतेऽभावज्ञा ज्ञानस्याभावधीहेतुत्वात् कार्यस्य तत्तद्वयक्तिविशेषत्वेनैव प्रागभावप्रतियोगित्वाद्विषयविशेषविषयत्वस्यैव ज्ञाने विशेषत्वात्तदुत्पत्तेः पूर्वं तत्त्वेन तदवगमायोगात्तत्कार्यप्रागभावधीरप्ययुक्तेत्यर्थः। यदत्रोक्त तद्विशेषज्ञानाभावज्ञानं प्रति तत्सामान्यज्ञानं हेतुरिति, तदनुवदति-- न चेति / अभावान्तरे प्रतियोगितावच्छेदकविशिष्टज्ञानस्याभावधीहेतुत्वेन क्लृप्तत्वात् तद्भावेऽभावधियोऽसम्भवात् / इतरथा क्लतकारणभङ्गः क्वापि दोषो न स्यादित्यभिप्रेत्याह--प्रतियोगीति / विपक्षे बाधकान्तरमाह-अन्यथेति / प्रमेयत्वाद्याकारेण घटादिज्ञानादपि घटत्वाद्यवच्छिन्नतदभावधीः स्यादित्यर्थः / न च सिद्धान्तेऽपि कथमनित्यज्ञानादेवंसावगम इति वाच्यम् / उत्पन्नस्य तस्य प्रत्यक्षादिना विशिष्यावगमसम्भवादिति भावः। ननूक्तप्रतियोगिज्ञानं ज्ञानप्रागभावेतराभावधीहेतुः। अत्र च सामान्यज्ञानमेवेत्यन्यदेव कारणमित्यत्राह-सामग्रयन्तरेति / ___ अभावधीमात्रेऽन्य एवानुगतो हेतुः, न तु त्वदुक्त इति शङ्कते-नन्विति / अभावज्ञानस्य प्रतियोगी यद्विशिष्टतया प्रतीयते तत्प्रकारकज्ञानमेव तद्धेतुः। 'अहमज्ञः' इत्यादिप्रागभावानुभवे च प्रतियोगिनो ज्ञानत्वविशिष्टतया प्रतीतेस्तत्प्रकारकज्ञानस्य विशेषज्ञानाभावेऽपि सम्भवान्न तदनुपपत्तिः, न चातिप्रसङ्ग इति भावः। प्रतियोगितावच्छेदकवत्तया प्रतियोगिज्ञानस्यैव हेतुत्वे बाधकमाह-अन्यथेति / सामान्यप्रत्यासत्त्यभावमते रूपत्वावच्छिन्नयावद्रूपज्ञानासम्भवेन वायौ तत्सामान्याभावस्य यावत्तद्विशेषाभावस्य वाऽनुभवो न स्यादित्यर्थः। यस्य मते सामान्यप्रत्यासत्तिरस्ति तन्मते प्रतियोगिनि प्रतियोगितावच्छेदकस्यैवाभावज्ञाने भाननियमात् तत्र तदनवच्छेदकस्य तथाऽवभास एवानुपपन्नः। इतरथा घटवत्यपि भूतले घटो नास्तीत्येवमाकारण घटान्तराभावप्रमाप्रसङ्गादित्यभिप्रेत्याह-नेति / . 18