________________ 116 सटीकाद्वैतदीपिकायाम प्रतियोगित्वस्यैव भविष्यच्छब्दार्थत्वात्। उत्पन्नस्य कालान्तरसम्बन्धज्ञानेऽपि भविष्यतीति बुद्धिप्रयोगयोरभावाच्चेति चेत् / न, वर्तमानक्षणासत्त्वोपहितोतरक्षणवैशिष्टयस्यैव भविष्यतीति बुद्धिविषयत्वात् / तथैव तच्छब्दात्प्रतीतेः / वर्तमानक्षणासत्त्वं च न प्रागभावप्रतियोगित्वेन, किं तु वर्तमानक्षणे तदवच्छिने वा आगामिघटस्य सर्वथाऽसत्त्वात् / अत्यन्ताभावप्रतियोगित्वेनैव / अन्यथा देवदत्तः पण्डितो भविष्यतीत्यादिप्रत्ययप्रयोगौ न स्याताम् / उत्पन्नदेवदत्तस्य विद्यमानप्रागभावाप्रतियोगित्वात, विशिष्टस्यानन्यत्वाच्च। अन्यथा बुध्यादेः परमतेऽनात्मधर्मत्वापातात् / शरीरादिविशिष्टात्मन्येव बुद्धयादिदर्शनात् / न च तत्र पाण्डित्यमात्रस्यैव भविष्यत्ता, न तु देवदत्तस्येति वाच्यम् / पण्डितदेवदत्तस्यैव भविष्यत्तान्वयानुभवात् / शब्दप्रयोगेऽपि देवदत्त इति प्रथमया सप्तम्यर्थो लक्षणीयः पण्डितशब्दस्य च धर्मपरत्वं लिङ्गव्यत्ययश्चेति बहुकल्पनाप्रसङ्गात् / पण्डितत्वविशिष्टदेवदत्तात्यन्ताभावश्च प्रागप्यस्तीति न विद्यमानस्य मानप्रागभावप्रतियोगित्वमेव तद्विषयोऽस्त्वित्याशयाह--तथैवेति / तन्तुषु पटो भविष्यतीत्याप्तोक्त्या तत्रागामिकाले पटासत्त्वशङ्का व्यावय॑ते प्रागभावप्रतियोगित्वमात्रस्य भविष्यच्छव्दार्थत्वे तन्न स्यात् / तत्रैतावन्तं कालं प्रागभावसत्त्वेऽपि सहकारिविरहात्पटाभाववदनन्तरमपि तद्विरहात्तदभावसम्भवात्तत्सत्त्वनिश्चयायोगादिति भावः / नन्वागामिकार्यस्य वर्तमानक्षणे सत्त्वाभावस्तदभावप्रयुक्तो वाच्यः / स च प्रागभाव एवेत्याशङ्क्य तदानीं तत्रत्यसामयिकात्यन्ताभाव एव तदसत्त्वप्रयोजक इत्याहवर्तमानेति / विद्यमानप्रागभावप्रतियोगित्वस्यैव भविष्यच्छब्दार्थत्वे बाधकमाह--अन्यथेति / पाण्डित्यविशिष्टदेवदत्तस्य केवलदेवदतादन्यत्वेन तत्पूर्व तत्प्रागभावोऽस्तीत्याशयाहविशिष्टस्येति / विशेष्याद्भिन्नं विशिष्टं किमभावरूपं भावरूपं वा। नाद्यः प्रतियोगिनो दुनिरूपत्वात् / द्वितीयेऽपि तत्कि नित्यमनित्यं वा। नाद्यः विशेषणाद्यभावेऽपि तत्प्रसङ्गात् / न द्वितीयः तदुपादानानिरूपणात् / न च विशेषणादिकमेव तदुपादानमिति वाच्यम् / गुणादीनामपि तदापत्तः। विशिष्टस्यापि विशेषणादिभेदविशिष्टत्वेन तदनवस्थाप्रसङ्गाच्चेति भावः / विशिष्टस्य विशेष्यादन्यत्वे बाधकान्तरमाह-अन्यथेति / पण्डितो भविष्यतीति बुद्धिशब्दयोविशेषणस्यैव भविष्यत्ताविषयो न विशेष्यस्येति शङ्कानिराकरोति--न च तत्रेति / देवदत्तस्थितिकाले देवदत्ताभावाभावात् त्वन्मतेऽपि कथं तदा विशिष्टासत्त्वमित्याशङ्क्याह-पण्डितत्वेति / विशेषणाभावप्रयुक्तविशिष्टाभावस्य