________________ द्वितीयः परिच्छेदः 115 न्ताभावस्यैव तद्विषयत्वात् / अन्यथा वायौ रूपं नास्तीति प्रत्ययोऽपि कथं चिद्विशेषाभावविषय एवेति सामान्याभावस्यवासिद्धिप्रसङ्गात् / __ अत एवंतावत्कालं तन्तुषु पटो नासीदिति बुद्धिरपि न प्रमाणम् / एतावकालं भूतले घटो नासीदिति बुद्धेरिवात्यन्ताभावविषयत्वात्।। नापि 'इदं भा भूत्' इति कामना प्रागभावविषया। अत्यन्ताभावस्थासाध्यस्य तदयोगात, ध्वंसस्य च तदानीमनिष्पन्न प्रतियोगिकस्याकाम्यत्वात, प्रागभावपरिपालनस्य च साध्यत्वात्, इति वाच्यम् / अनादिप्रागभावस्य कालान्तरे सम्बन्धस्येवात्यन्ताभावस्यापि कालान्तरे सम्बन्धस्य कामनासम्भवात् / तस्य च प्रागभावसम्बन्धस्येव प्रतियोगिजनकविघटनाधीनत्वात् तदर्थं यत्नाविरोधात् / अथ तन्तुषु पटो भविष्यति' इति बुद्धिः प्रागभावविषया। न च भविष्यतीति बद्धिः पटादेः भविष्यत्कालसम्बन्धविषयेति वाच्यम् / विद्यमानप्रागभाव ननु वायौ रूपं नास्तीति बुद्धया न सामान्याभावसिद्धिः, किं तु पृथिव्यादिरूपाभाववत्तया निश्चितेऽपि वायौ रूपमस्ति न वेति संशयविषयतया निश्चिताभावातिरिक्तरूपाभावसिद्धिरिति चेन्न / तस्य निश्चिताभावेष्वेव वायुवृत्तिधर्मरूपत्वसंशयाहितसंशयत्वोपपत्तेः। वायौ प्रत्येकप्रतियोगिकनिखिलरूपाभावाः सन्तीति निश्चयदशायां तत्संशयाभावेन तत्संशयस्योक्तसंशया.ितत्वस्थावश्यकत्वात् / तस्मात्प्रतीतिवैलझण्यादेव त्वया सामान्याभावः सावनीयः, प्रतियोगिनि सामान्याकाराभावप्रतीतेरन्यथासिद्धित्ववर्णने स न सिध्यदिति भावः। द्वितीयं दूषयति-अत एवेति / अतः शब्दार्थमेवाहएतावदिति / तृतीयं दूषयति-नापीति / अस्य वाच्यमित्युत्तरेण सम्बन्धः / अभावान्तरविषयत्वेनान्यथोपपत्ति निराकरोति--अत्यन्तेति / एतदप्यन्योन्याभावस्योपलक्षणम् / प्रागभावस्याप्यनादितया कथं काम्यतेत्याशक्य तत्प्रतियोगिजनकविघटनद्वारा तत्परिपालनस्य साध्यत्वात्तत्कामनेत्याह-प्रागभावेति / सामयिकात्यन्ताभावविषयत्वेनान्यथोपपत्तिमाह-अनादीति / कालान्तरे सम्बन्धस्येति / कालान्तरे स्वाधिकरणसम्बन्धस्येत्यर्थः।। चतुर्थमुत्थापयति--अथेति / पटादेरागामिकालसम्बन्ध एव भविष्यबुद्धेविषयो न प्रागभाव इत्याशझ्याह-न चेति / विद्यमानपर्वतादेरागामिकालसम्बन्धावगमेऽपि भविष्यतीतिबुध्यादेरदर्शनात् प्रागभाव एव तद्विषय इत्याह-उत्पन्नेति / नागामिकालसम्बन्धित्वमानं 'भविष्यति' इति बुद्धिविषयः, किं तु तद्बुद्धिकाले स्वाधिकरणसंसर्गाभावप्रतियोगित्वे सति तत्त्वम् / तथा चातीतस्य वर्तमानस्य वा न तादृशबुद्धिगोचरतेत्युक्तविशेषणद्वयं युक्तमेव भविष्यतीति बुद्धयादिविषय इत्याह-न वर्तमानेति / विद्य