________________ 114 सटीकाद्वैतदीपिकायाम् पटो नास्तीति प्रत्यक्षं प्रमाणम्। पटो नास्तीति बुद्धः पटत्वावच्छिन्नप्रतियोगिकाभावविषयिण्याः सामान्याभावविषयतया प्रागभावाविषयत्वात् / न हि सामान्याभावरूपः प्रागभावोऽस्ति / घटादिव्यक्तिव्यतिरेकेण सामान्यस्य प्रतियोगिनोऽभावात् / प्रागभावस्यावश्यं प्रतियोगिजनकत्वात् / व्यक्तिविशेषाणां च विशेषप्रागभावकार्यत्वात्तव्यतिरेकादेव तद्व्यतिरेकेण सामान्याभावस्य तत्कारणत्वे मानाभावात् / यावद्विशेषाभाववत्येव सामान्याभावस्य नियमात यावत्प्रागभावानां चैकत्रासंभवात् / ननु तन्तुषु पटात्यन्ताभावाभावात् कथञ्चित्सा बुद्धिः प्रागभावमेव विषयीकरोतीति चेत् / न, भूतले घटो नास्तीति बुद्धेरिव कालभेदेनाधिकरणसंसर्ग्यत्य - प्रमाणाभाव मुपपादयति-तथा हीति / तत्र किं पटोत्पत्तेः पूर्वं तन्तुषु पटो नास्तीति बुद्धिर्मानम्, एतावन्तं कालं तन्तुषु पटो नासीदिति बुद्धिर्वा, इह माभूदिति कामनाऽनुपपत्तिा , तन्तुषु पटो भविष्यतीत्यनुभवो वा ? / नाद्य इत्याह-तत्र न तावदिति / घटे पटो नास्तीति बुद्धिवसामान्याभावविषयत्वान्नेयं प्रागभावविषयेत्याह -पट इति / अत्यन्ताभाववत्प्रागभावोऽपि सामान्याभावरूपोऽस्त्वित्याशझ्याह-न हीति / प्रतियोगिजनको ह्यभावः प्रागभावः। तथा च सामान्याभावरूपप्रागभावेन घटादिव्यक्तय एव जन्यन्ते तदतिरिक्तं सामान्यं वा ? नान्त्य इत्याह-घटादीति / सामान्याभावरूपप्रागभावस्य प्रतियोगिजनकत्वमेव मास्त्वित्याशझ्याह-प्रागभावस्येति / तव मते प्रागभावत्वस्य प्रतियोगिजनकत्वयाप्यत्वात्तदभावे प्रागभावत्वस्वानुपपत्तेरित्यर्थः / आद्यं द्रषयति-व्यक्तिविशेषाणामिति / सामान्याभावोऽपि तत्र कारणमित्याशझ्याह -तद्व्यतिरेकादिति / धर्मिणोऽसंभवादपि न सामान्यप्रागभाव इत्याह-यावदिति / रूपप्रतियोगिकयावद्विशेषाभाववत्येव वायौ रूपसामान्याभावदर्शनात् यावद्घटप्रागभावाश्रयस्य कस्यचिरभावान्न तत्सामान्यप्रागभाव इत्यर्थः। ननु तन्तुषु पटो नास्तीति धीः स्वविषयाभावप्रतियोगितायाः पटत्वावच्छिन्नत्वं न विषयीकरोति पटत्वावच्छिन्नप्रतियोगिकाभावस्य तन्तुष्वभावात् / किं तु तस्याः पटत्वसामानाधिकरण्यमात्रम् / तच्च प्रागभावविषयत्वेऽप्युपपद्यत इति शङ्कते-नन्विति / भूतले पटो नास्ति तन्तुषु पटो नास्तीति बुद्ध्योः पटप्रतियोगिकाभावविषयत्वांशे वैलक्षण्याभावादुभयत्रापि पटत्वावच्छिन्नप्रतियोगिकाभाव एव विषयः / तथा च संयोगितया घटाधारे भूतलादौ यथा समयभेदेन संसर्गशीलस्त दत्यन्ताभावः, एवं समवायितयाऽऽश्रये तन्त्वादौ तादृशपटात्यन्ताभावसम्भवान्न प्रागभावसम्भव इति दूषयतिन भूतल इति / अभावप्रतीतिविषयस्य प्रतियोगिगतसामान्यस्य तत्प्रतियोगितानवच्छेदकत्वे बाधकमाह-अन्यथेति /