________________ द्वितीयः परिच्छेदः 113 पूर्वप्रकाशाभावमात्रेणाप्रकाशितप्रकाशकतोपपत्तेरप्रयोजकश्च / नापि देवदत्तप्रमा देवदत्तगतप्रमाप्रागभावातिरिक्तानादिनिवत्तिका प्रमात्वात् यज्ञदत्तप्रमावदित्यनुमानं प्रमाणम् / देवदत्तसुखादिप्रमायां बाधात / किं च साध्ये देवदत्तगतत्वं कि प्रमातत्प्रागभावयोरन्यतरस्य विशेषणं तदतिरिक्तानादेर्वा ? नाद्यः। वृत्तेस्तत्प्रतिबिम्बितचैतन्यस्य वा प्रमाया आत्मगतस्वाभावात् / प्रागभावस्य प्रतियोगिसमानाधिकरणत्वात्। . न द्वितीयः / दृष्टान्ते साध्याभावात् / यज्ञदत्तप्रमाया यज्ञदत्तगतप्रागभावनिवर्तकत्वेऽपि देवदत्तगतानाद्यनिवर्तकत्वात् / साध्ये च प्रमापदवैयर्थ्यम् / चैत्रप्रमा चैत्रगतस्याभावातिरिक्तस्यानादेरनिवत्तिका प्रमात्वात्मत्रप्रमावदिति प्रतिप्रयोगाच्च। चैत्रप्रमा स्वप्रागभावातिरिक्तानाद्यभावनिवत्तिका प्रमात्वादित्याभाससमानयोगक्षेमत्वाच्च / अर्थापत्तिरपि तत्र न मानम् / तेन विनाऽनुपपन्नार्थाभावात् / प्रपञ्चस्य पारमाथिकत्वात् / श्रुतौ च मायादिशब्दानामन्यार्थत्वात् / तस्माल्लक्षणप्रमाण योरभावान्न भावरूपमज्ञानमिति / अज्ञानसमर्थनेऽज्ञानलक्षणम् प्रागभावनिरासः अत्रोच्यते। अनादित्वे सति ज्ञाननिवर्त्यमज्ञानम् / न च प्रागभावेऽतिव्याप्तिः। तत्र प्रमाणाभावात् / तथा हि--तत्र न तावदुत्पन्नमात्रतन्तुषु चित्सुखाचार्यानुमानमपि निराकरोति-नापीति / पक्षदोषमाह-देवदत्तेति / सुखादिविषयभावरूपाज्ञानाभावेन तत्प्रमायास्तन्निवर्तकत्वाभावादित्यर्थः / साध्यमपि विकल्प्य दूषयति - किं चेति / आत्मगतत्वाभावादिति / वृत्तेरन्तःकरणगतत्वा तदवच्छिन्नचैतन्यस्य च निरधिकरणत्वादित्यर्थः / चैतन्यस्य प्रागभावाभावात् वृत्तिप्रागभावस्यान्तःकरणगतत्वेनात्मगतत्वमसिद्धमित्याह-प्रागभावस्येति / देवदत्तगतत्वमनादेविशेषणमिति कल्पं दूषयति-न द्वितीय इति / अभावव्यतिरिक्तत्वविशेषणेनैव प्रमाप्रागभावस्यापि व्यावृत्तिसंभवादितरवैयर्थं चेत्याह-साध्य इति / उक्तस्यापि प्रतिप्रयोगपराहतिमप्याहचैत्रेति / स्वप्रागभावेति / अत्र स्वशब्दः पक्षवाची, तथा च मैत्रप्रमायां न साध्यवैकल्यम् / तृतीयं दूषयति-अर्थापत्तिरिति / प्रपञ्चमिथ्यात्वं तादृशोपादानमन्तरेणानुपपन्नमित्याशङ्क्याह-प्रपञ्चस्येति / 'मायां तु प्रकृति विद्यात्" "अजामेकाम्" "भूयश्चान्ते विश्वमायानिवृत्तिः” इत्यादिश्रुतिस्तत्र मानमिति कल्पं निराकरोति-श्रुताविति / पूर्वपक्षनुपसंहरति-तस्मादिति / उक्तदोषोद्धारं प्रतिजानीते-अत्रोच्यत इति / स्वाभिमतं लक्षणमाह-अनादीति / पराभिमतेच्छादिप्रागभावेऽतिव्याप्तिं निराकरोति-न चेति / तत्रेति / प्रागभावमात्रे इत्यर्थः / एतच्च लक्षणाभावस्याप्युपलक्षणम्।