________________ 112 सटीकाद्वैतदीपिकायाम् हेतौ च प्रकाशकत्वं किं ज्ञानत्वं, ज्ञानहेतुत्वं वा, साक्षात्परंपरया व्यवहारहेतुत्वमात्र वा, तमोनिवर्तकत्वं वा, आवरणनिवर्तकत्वं वा, आज्ञानान्धकारान्यतरनिवर्तकत्वं वा, प्रकाशशब्दवाच्यत्वं वा ? नाद्यः। दृष्टान्तेऽभावात् / न द्वितीयः / असिद्धः, इन्द्रियादौ व्यभिचाराच्च / अत एव न तृतीयः / न चतुर्थः / अज्ञानान्धकारानुगततमस्त्वाभावात् / न च पञ्चमः / साध्यावैशिष्टयात् / अत एव न षष्ठः। न सप्तमः। शब्दसाम्येव साध्यसाधने गोशब्दवाच्यत्वेन पृथिव्यादौ शृङ्गित्वसाधनापातात् / किं चानुमितेर पकाशितार्थाप्रकाशत्वे सा व्यर्था / अप्रकाशितप्रकाशकत्वे वाऽस्यामेवानुमितौ व्यभिचारः। अनादित्वे सति भावत्वमभावविलक्षणत्वं वा न निवर्त्यनिष्ठम् / अनादिभावमात्रवृत्तित्वात् / अनाद्यभावविलक्षणमात्रवृत्तित्वाद्वा आत्मत्ववत् / निवर्त्यत्वं वा नानादिभावनिष्ठम् / निवर्त्यमात्रवृत्तित्वात्प्रागभावत्ववत् / अनादित्वं वा नावरणनिष्ठम् / अनादिमात्रवृत्तित्वात् प्रागभावत्ववत। प्रमाणज्ञानं वा नानादिभावनिवर्तकम् / ज्ञानत्वादप्रमावदिति सत्प्रतिपक्षत्वाच्च। दीपप्रभायां ज्ञानत्याभावात्साधनवैकल्येनाद्यं दूषयति-नाद्य इति / असिद्धेरिति / पक्षीकृतज्ञानमात्रस्य ज्ञानाहेतुत्वादित्यर्थः / इन्द्रियादेरपि ज्ञानद्वारा व्यवहारहेतुत्वेन तत्र व्यभिचारादेव न तृतीय इत्याह-अत एवेति / अज्ञानेति / ज्ञानदीपप्रभानिव~योरज्ञानान्धकारयोरनुगतस्य जातिरूपस्योपाधिरूपस्य वा तमस्त्वस्याभावात् ज्ञाने तन्निवर्तकत्वमसिद्धमित्यर्थः / साध्यावैशिष्टयादिति / ज्ञाननिवर्त्यावरणस्यैव साध्यत्वादावरणनिवर्तकत्वं ज्ञाने सिद्धमित्यर्थः -अत एवेति / साध्यावैशिष्ट्यादेवेत्यर्थः / ज्ञानस्याज्ञानान्धकारान्यतरनिवर्तकत्वमज्ञाननिवर्तकत्वेन वाच्यं, तदेवासिद्धम्। तस्यैव साध्यत्वादित्यर्थः / प्रकाशशब्दवाच्यत्वमिति पक्षमाभाससमतया दूषयति-न सप्तम इति / अनुमितावप्युक्तहेतुरस्ति न वा ? अन्त्यं दूषयति-किं चेति / आये अज्ञानविषयानुमितावेव व्यभिचारः। अज्ञानावरकाज्ञानान्तराभावात् / तत्रोक्तसाध्याभावादित्याह-अप्रकाशितेति / प्रतिपक्षपराहतिमध्याह--अनादित्व इति / प्रागभावगतानादित्वे सिद्धसाधनमित्याशङ्क्याह-अभावेति / घटत्वे व्यभिचारवारणाय हेतावनादीति विशेषणम्। प्रागभावत्वे तद्वारणाय भावपदम्। प्रमेयत्वे तद्वारणाय मात्रपदम् / अज्ञाननिष्ठाभावविलक्षणत्वेऽयं हेतुरसिद्ध इत्याशङ्क्याह--अनाद्यभावेति / उत्तरानमानानि स्पष्टार्थानि / ज्ञानोत्पत्तेः पूर्वं तद्विषयावरकतन्निवयंभावरूपाज्ञानाभावेऽपि हेतोः संभवादप्रयोजकतापीत्याह-पूर्वीमति /