________________ द्वितीयः परिच्छेदः 111 तृतीयं चायुक्तम् / वृत्तिश्चिदुपरागार्थेति मते घटाकारबृत्त्या तत्प्रतिबिम्बित. चैतन्येन वाऽभिव्यक्तं घटाधिष्ठानं चैतन्यं घटप्रकाशकमिति मते च घटविषयज्ञानस्य घटाज्ञानानिवर्तकत्वात् / वृत्तिप्रतिबिम्बचैतन्येन विषयस्याध्यासिकसंबन्धाभावेन घटाद्यप्रकाशकत्वाच्च / चतुर्थं चायुक्तम् / अज्ञानस्यचिन्मांत्राश्रयत्वात् / वृत्तेस्तत्प्रतिबिम्बितचैतन्यस्य तदभिव्यक्ताधिष्ठानचैतन्यस्य वा प्रमाणज्ञानस्य तदनाश्रितत्वात् / किञ्च स्वविषयावरणपूर्वकमित्येतावदेवालम् / न हि प्रमाप्रागभावस्तद्धत्वदष्टमन्यद्वा ज्ञानातिरिक्तं किञ्चिदावरणं भवति / तथात्वे तेनैव ब्रह्मस्वरूपावरणसंभवादप्रयोजको हेतुः स्यात् / न च तमोव्यावृत्यर्थन्तृतीयं विशेषणम् / तस्य प्रमामात्रविषयावरणत्वाभावात् / न च व्यापकविशेषणानामुद्देश्यप्रतीत्यर्थत्वान्न वैयर्थ्यमिति वाच्यम् / यत्राविशेषित साध्यं प्रति हेतोरप्रयोजकता विमतं भिन्नाभिन्नं समानाधिकृतत्वादित्यादौ तत्रैव विशिष्ट प्रतीतेरुद्देश्यत्वात् / अन्यथाऽतिप्रसङ्गात् नीलधूमजन्यवन्हिप्रतीतेरेवोद्देश्यत्वादिति वक्तुं शक्यत्वात् हेतावपि तदभावप्रसङ्गात् / रिणीत्याशक्य वृत्तिप्रतिबिम्बितचैतन्ये घटादेरनध्यासात्तस्य घटादिनाऽऽध्यासिकसंबन्धाभावेन तत्प्रकाशकत्वमेवानुपपन्नमित्याह-वृत्तीति / अज्ञानस्य पक्षीभूतज्ञानदेशगतत्वमाययुक्तम् / वृत्तेरन्त: करणगतायाश्चिन्मात्रगताज्ञानसादेश्याभावात् / वृत्तिप्रतिबिम्बितचैतन्यस्य तदभिव्यक्तविषयाधिष्ठानचैतन्यस्य वा प्रमाणज्ञानत्वेन विवक्षायां तयोरपि निरधिकरणतयाऽज्ञानसमानाधिकरणत्वाभावादित्याह-चतुर्थ चेति / इदानीमेकविशेषणमङ्गीकृत्येतरविशेषणानां वैयर्थ्यमाह-किं चेति / अज्ञानातिरिक्तस्याप्यावारकत्वे तत एव ब्रह्मस्वरूपानवभाससंभवात् उक्तसाध्ये हेतुरप्रयोजकः स्यादित्याह-तथात्व इति / ननु स्वविषयावरणपूर्वकमित्युक्ती संतमसपूर्वकत्वेन सिद्धसाधनता स्यात् तन्निवारणाय स्वनिवाति विशेषणमर्थवदित्याशयात्र गन्धादिषयप्रमाया अपि पक्षत्वात्स्वशब्देन तस्यापि ग्रहणात्तमसस्तद्विषयावरकत्वाभावान्मवमित्याह -- न चेत्यादिना / / नन्वत्र स्वप्रागभावातिरिक्तत्वादिविशेषणविशिष्टाज्ञानप्रतीतेरुद्द श्यत्वादेकेनापि विशेषणेन विना तदयोगान कस्यापि वैयर्थ्यमित्याशङ्कामपवदति-न च व्यापकेति / विशिष्टप्रतीतिर्न सर्वत्रोद्दश्या, किं तु यस्मिन्साध्ये विशेषणेन बिना हेतुरप्रयोजकः / यथा भेदमात्रे अभेदमात्रे वा समानाधिकृतत्वहेतुरप्रयोजकः, तत्रैव विशिष्टप्रतीतिरुद्देश्या। प्रकृतसाध्ये तु विशेषणेन विना हेतु प्रयोजकः। ततो न विशिष्टप्रतीतिरुद्द श्येत्याहयत्रेति / इतरथा हेतुविशेषणस्याप्यवैयापात इत्याह-अन्यथेति / तदेवोपपादयति-नीलेति / एवं साध्यं दूषयित्वा हेतुमपि दूषयितुं विकल्पयति-हेतौ चेति /