________________ 110 सटीकाद्वैतदीपिकायाम् घटाद्यवच्छिन्नचैतन्यस्यावारकमज्ञानं तत्रापि निवर्त्तत इति चेत् न, एकाज्ञानपक्षे तदभावात् / अवच्छिन्नस्यास्वप्रकाशत्वेन घटादाविव तत्राप्यज्ञानायोगाच्च, रूपादिहीनस्यावच्छिन्नचैतन्यस्य चाक्षुषत्वायोगाच्च / अध्यात्मविषयापरोक्षवृत्तः पक्षत्वेऽनात्मज्ञाने व्यभिचारात् / आत्मविषयत्वेन हेतुविशेषणे दृष्टान्तस्य साधनवैकल्यात् / साध्येऽप्याद्यधिशेषणं व्यर्थम् / यतो ज्ञानमज्ञानस्यैव निवतकमिति ज्ञानमेव प्रागभावनिवृत्तिरिति च मते स्वनिवर्त्यविशेषणेनैव तस्य व्यावृत्तत्वात् अभावव्यतिरिक्तपदेनैव तव्यावृत्तिसिद्धया शेषवैयर्थ्याच्च / द्वितीयविशेषणं चायुक्तम् / जडावरकाज्ञानस्यानङ्गीकृतत्वात् / उत्पादकादष्टव्यावत्तरावरणपदेनैव सिद्धत्वाच्छेषवैयर्थ्याच्च / त्वन्मते ज्ञानस्याज्ञानमात्रनिवर्तकत्वेन स्वनिवर्त्यपदेनैव तद्वयावृत्तिसिद्धेश्च / / अज्ञानमेकमेवेति मते घटादिवृत्तीनामज्ञाननिवर्तकत्वमयुक्तमित्याह--न एकेति / ननु मूलाज्ञानस्यैकत्वेऽप्यवस्थाज्ञानं ततदवच्छिन्न चैतन्यावरकं तत्तद्विषयवृत्तिनिवयं चानन्तमभ्युपेयते / अत्र च नोक्तदोष इत्याशङ्क्यावच्छिन्नचैतन्यस्थ चिन्मात्रादन्यत्वे जडत्वादावारकाज्ञानमेवानुपपन्नमित्यभिप्रत्याह--रूपादीति / तयनात्मविषयवृत्तावबाधायात्मविषयवृत्तिरेव पक्षीक्रियत इत्याशायाह-आत्मेति / अप्रकाशितात्मप्रकाशकत्वादिति हेतोविवक्षितत्वादनात्मविषयवृत्तौ न व्यभिचार इत्याशङ्क्याह-- आत्मेति / एवं पक्षं दूषयित्वा साध्यमपि दूषयति--साध्ये पीति / सिद्धान्ते भावरूपाज्ञानस्यैव ज्ञाननिवर्त्यत्वात्परमते तु ज्ञानस्यैव स्वप्रागभावनिवृत्तिरूपत्वेन तत्प्रागभावस्य सन्निवय॑त्वाभावात् / मतद्रयेऽपि स्वनिवर्त्यपदेनैव स्वप्रागभावस्थ व्यावृत्तत्वात्तदर्थमाद्यविशेषणं व्यर्थमित्याह--यत इति / प्रागभावस्थ प्रतियोगिनिवर्त्यत्वमतेऽपि अभावव्यतिरिक्तेत्येतावतापि तवयावृत्तिसिद्धेः स्वप्रागिति विशेषणं व्यर्थमित्याह - अभावेति / स्वविषयावरणेत्येतदसंभवेन दूषयति--द्वितीयेति / किं च पक्षीभूतज्ञानजनकादृष्टव्यावृत्तये हि द्वितीयविशेषणम् / तत्र चावरणपदेनैव तव्यावृत्तिसंभवात्स्वविषयेति व्यर्थमित्याह-उत्पादकेति / उत्पादकादृष्टस्य सिद्धान्ते ज्ञाननिवर्त्यत्वाभावात् तृतीयविशेषणेनैव तव्यावृत्तिसिद्वितीयं सर्वं व्यर्थमित्याह-- त्वन्मत इति / स्वनिवातिविशेषणमप्यसंभवि विषयसंसृष्टतयोत्पन्ना वृत्तिः स्वोपहितचैतन्यस्य विषयसंबन्धघटिकेति मते विषयाधिष्ठानचैतन्यमेव वृत्त्या तदवच्छिन्नचैतन्येन वाऽभिव्यक्तं विषयप्रकाशकमिति मते चाज्ञानस्य वृत्त्यनिवर्त्यत्वादित्याह--तृतीय चेति / वृत्तिप्रतिबिम्बितचैतन्यस्य घटादिप्रकाशकतया तदज्ञाननिवर्त्तकत्वावृत्तिरपि तत्सहका