________________ द्वितीयः परिच्छेदः 109 जानाभावादेव रागाद्यभावसिद्धिः। प्रकाशमानात्मादौ तदभावासिद्धः। तस्मान प्रत्यक्षं भावरूपाज्ञाने मानम् / विवरणोक्तानुमानेन भावरूपाज्ञानसाधननिरासः नाप्यनुमानम्। तत्र न तावत्प्रमाणज्ञानं स्वप्रागभावयतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम्। अप्रकाशितार्थप्रकाशकत्वात् / अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदित्यनुमान प्रमाणं सुखादिसाक्षिप्रमाया अज्ञानानिवर्तकत्वेन बाधात् वृत्तेः पक्षत्वे परोक्षवृत्तौ बाधात् / अपरोक्षवृत्तेः पक्षत्वे च परोक्षवृत्तौ व्यभिचारात् / तद्व्यावृत्त्यर्थं हेतुविशेषणे चाप्रयोजकत्वात, भ्रमे धयंशापरोक्षप्रमाणे बाधाच्च। तदन्यस्य पक्षत्वे धारावाहिकद्वितीयादिप्रमायां बाधादसिद्धेश्च प्रथमप्रमाद्यव्यवहितायास्तस्या अज्ञानानिवर्तकत्वात्, प्रकाशितार्थप्रकाशकत्वाच्च, सूक्ष्मतत्तत्क्षणानामप्रत्यक्षत्वाच्च / तदन्यस्य पक्षत्वेऽप्यनात्मविषयापरोक्षवृत्तौ बाधात् जडावरकाज्ञानाभावात् / षयरागाद्यभावो न सिद्ध्येदित्याह-न च ज्ञानेति / प्रत्यक्षनिराकरणमुपसंहरतितस्मादिति / द्वितीयं दूषयति - नापीति / प्रथमं विवरणाचार्यानुमानं निराकरोति--तत्रेति / भावरूपाज्ञाने इत्यर्थः / प्रमाणज्ञानमित्यनेन किं यथार्थज्ञानमात्रं पक्षीक्रियते उत प्रमाणजन्यं वृत्तिज्ञानम् ? / आये अंशतोबाव इत्याह-पुखादीति / द्वितीयेऽपि किं तादृशवृत्तिमात्र पक्षः उतापरोक्षवृत्तिः। आद्ये परोक्षवृत्तौ बाधः तस्या अज्ञाननिवर्तकत्वानङ्गीकारादित्याह-वृत्तेरिति / द्वितीये दोषमाह-अपरोक्षेति / अप्रकाशितापिरोक्षप्रकाशकत्वादिति हेतोविवक्षितत्वान्न परोक्षवृत्तौ व्यभिचार इत्याशक्याह-नद्वयावृत्त्यर्थमिति / परोक्षज्ञानस्येवोक्तसाध्यं विनाऽप्यप्रकाशितार्थप्रकाशकत्वसम्भवादप्रयोजकत्वमित्यर्थः / किं च भ्रान्ताविदमाकारवृत्तेरज्ञाननिवर्त्तकत्वे तन्मूलरजतभ्रमायोगात्तत्र बाध इत्याह-भ्रम इति / भ्रमविरोधित्वेनापि पक्षविशेषणे दोषमाह-तदन्यस्येति / धारायां द्वितीयादिज्ञाने हेतोरसिद्धिश्चेत्याह-असिद्धेश्चेति / दोषद्वयेऽपि क्रमेण हेतुमाह-प्रथमेति / ननु प्रथमादिज्ञानानामुत्तरोत्तरक्षणविशिष्टघटादिविषयकत्वाद् उत्तरोत्तरक्षणविशिष्टघटविषयकद्वितीयादिज्ञानमज्ञातार्थविषयमिति नोक्तदोषद्वयमित्यत आह--सूक्ष्मेति / धारान्यत्वेनापि पक्षो विशेष्यते इत्याशङ्क्याह-तदन्यस्यति / बाधमेवोपपादयति--जडेति / घटाद्याकारवृत्तेरपि तदवच्छिन्नचैतन्यावरकाज्ञाननिवर्तकत्वान्न तत्र बाध इति शङ्कते--घटादीति /