________________ 108 सटीकाद्वैतदीपिकायाम् क्षेमेऽप्यात्मादौ स्मर्यमाणेऽपि नियमेनाऽस्मर्यमाण वस्य वा लिङ्गत्वात् / भवन्मतेऽपि सुषुप्तावहमर्थाभावेनान्यानुभूतेऽन्यस्य परामर्शायोगात् सुषुप्तावज्ञानस्य केवलसाक्षिवेद्यस्य संस्काराभावेन परामर्शायोगाच्च / न च सुषुप्तावविद्यावृत्तिविनाशात् संस्कार इति वाच्यम्।तहि जागरणेऽप्यज्ञानस्याविद्यावृत्तिवेद्यत्वनियमप्रसङ्गन तद्विरहदशायामज्ञाने संशयाद्यापत्तेः। कि च भवन्मतेऽपि सुषुप्तौ ज्ञानाभावः कथं सिद्ध्येत् / भावारूपाज्ञानलिङ्गनानुमीयते इति चेत् न / त्वन्मते जडे तदभावादियुक्तत्वात्, साक्षिवेद्येच्छादिज्ञानाभावासिद्धयापाताच्च। कि चवं सुषुप्तिकालीनो रागाद्यभावो न सिद्धयेत् / न हि तदा रागादिविरोधिद्वषोऽस्ति येनाज्ञानेन ज्ञानाभाव इव द्वेषेण रागाभावोऽनुमीयेत / न च भावः, ततः प्रत्यक्षज्ञानाभावः, ततः परो ज्ञानाभाव इति सर्वज्ञानाभावसिद्धिरित्याहइन्द्रियेति / प्रातश्चत्वरमार्गेणान्यत्र गतश्चैत्र: केन चित् गजोस्तीति सायं समये पृष्टो यथा गजसमानयोगक्षेमपाषाणादौ स्मर्यमाणेपि गजस्यास्मर्यमाणत्वलिगेन तदभावं तत्र निश्चिनोति / एवं ज्ञानसमानकालीनात्मादौ स्मर्यमाणेपि सुषुप्तौ ज्ञानस्वास्मर्यमाणत्वात्तदभावनिश्चय इत्याह-प्रातरिति / न किंचिदवेदिषमित्ययं न परामर्शः किंत्वनुमितिरित्यत्र किन्नियामकमित्यवाह-भवन्मतेऽोति / अस्मन्मतेऽपि सुषुप्तावज्ञानानुभवायोगेन तत्परामर्शायोगादित्यपेरर्थः / किं च भावरूपाज्ञानानुभवस्य साक्षिगो नित्यतया ततः संस्कारानुदयात्तत्कार्यपरामर्शोऽनुपपन्न इत्याह-सुषुप्ताविति / ननु सुषुप्तावज्ञानादिविषयाविद्यावृत्त्यङ्गीकारात्ततस्तततरामर्शहेतुसंस्कारोत्पत्तिरिति चेत् न / तथा सत्यज्ञानस्य केवलसाक्षिवेद्यत्वाभावापातेन जागरणेऽपि तथा स्यात् तथा च स्थाण्वादाविव तत्र कदाचित्संशयादिः स्यादित्याह-न चेत्यादिना / उक्तलिङ्गानाभावानुमित्यनभ्युपगमे तव मतेऽपि स्वापे ज्ञानाभावो न सिद्ध्येदित्याह-किं चेति / ननु यदा यद्विषयभावरूपाज्ञानं तदा तद्विषयवृत्तिज्ञानाभाव इति जाग्रति नियमदर्शनात्स्वापोऽपि सर्वविषयाज्ञानेन परामर्शसिद्धेन सर्वविषयज्ञानाभावोऽनुमीयते इति शङ्कते-भावरूपेति / जडविषयभावरूपाज्ञानाभावादेव तेन तद्विषयज्ञानाभावानुमानायोगादिति दूषयति---न त्वन्मत इति / किं चेच्छादिविषयभावरूपाज्ञानानङ्गीकारात्स्वापे तज्ज्ञानाभावो न सिद्ध्येदित्याह-साक्षीति / अपि च स्वापे' तद्विरोधिदर्शनेन तदभावनिश्चये तदा रागाद्यभावोऽपि न सिद्ध्येदित्याह--किं चैवमिति / नन्विष्टज्ञानादेः रागादिकारणत्वात्तदभाव एव भावरूपाज्ञानानुमितस्तत्कार्यरागाद्यभावमनुमापयतीत्याशक्य तथापि तदा प्रकाशमानात्मसुखादावज्ञानादेरभावात्तद्वि