SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 105 त्वात् भावरूपाज्ञानमपि न जानामीति ज्ञानविरोधित्वेनैव भातीति कथं तदवच्छेदकज्ञाने सति प्रतीयेत / अवच्छेदकाज्ञाने च नतराम् / साक्षी नाज्ञानविरोधीत्ये. तत्तुज्ञानाभावेऽपि तुल्यं तस्य प्रतियोगिनोऽन्यत्वात् / अथ वा तद्विशेषज्ञानाभाव एवाज्ञानं तद्ज्ञानं प्रति तत्सामान्यज्ञानमेव हेतुः तथैवान्वयव्यतिरेकदर्शनात् / अपरे तु विशेषस्य स्वरूपतो ज्ञानेऽपि विशेषतो न जानामीति विशेषप्रकारक ज्ञानं निषिद्ध्यते। तस्यैव संशयविरोधित्वात् / संभवति च सर्वत्र प्रमेयत्वादिरूपेण विशेषज्ञानमित्याहुः। अन्ये तु करतलामलकादिज्ञाने स्वविषयेतरप्रतियोगिकव्यावृत्त्यधिकरणतावच्छेदकधर्मविषयत्वादिकं प्रसिद्धमिह ज्ञाने निषिद्ध्यत इत्याहुः। तदवच्छेदके ते / तस्याज्ञानस्यावच्छे रको विषयः तज्ज्ञाने सति तद्विरुद्धाज्ञानस्यैवाभावात्त प्रतीत्ययोगः / तदज्ञाने च नागृहीतविशेषणान्यायेन सुतरां तदसंभव इत्यर्थः। ननु सिद्धान्ते सविषयमज्ञानं साक्षिणैव गृह्यते तस्य प्रमाणजन्यज्ञाननिवर्यत्वेन साक्षिणाऽविरोधादित्याशक्य तहि ज्ञानाभावरूपाज्ञानमपि सप्रतियोगिकं साक्षिणैव गृह्यते तस्यतत्प्रतियोग्यन्यत्वेन तदविरोधादितितुल्यमित्याह -साक्षीति / पूर्व प्रतियोगिविषयज्ञानातिरिक्तार्थज्ञानाभावस्यैवाज्ञानत्वान्न विरोव इत्युक्तम्। संप्रत्यर्थविशेषविषयज्ञानाभाव एवाज्ञानं, तज्ज्ञाने चार्थसामान्यज्ञानं हेतुरिति तस्य तेनाविरोधादनुभवसंभव इत्याहअथवेति / सामान्यज्ञानस्याप्रतियोगित्वात्कथं तज्ज्ञानं विशेषज्ञानाभावरूपाज्ञानानुभवे देतरित्याशङ्क्याह-तथैवेति / घटज्ञाने सत्यपि तत्प्रकारकज्ञानाभावाइ अर्थविशेषज्ञाने सत्यपि तत्प्रकारकज्ञानाभावरूपाज्ञानसंभवात्तदनुभवोपपत्तिरिति मतान्तरमाह-अपरे त्विति / विशेषस्य प्रकारत पैव प्रतीतिर्न त्वन्यथेत्याशङ्क्याह संभवतीति / त्वदुक्तमयं न जानामोति नार्थज्ञाननिषेधः किं तु तज्ज्ञाने करतलामलकादिज्ञाने प्रसिद्धासाधारणधर्मविषयत्वं निषिध्यते इति मतान्तरमाह-अन्ये विति स्वविषयेति / स्वस्यामलकज्ञानस्य विषय आमलकं तदितरद्घटादि तत्प्रतियोगिका या व्यावृत्तिरामलकनिष्ठोभेदः तदधिकरणतावच्छेदको यो धर्म आमलकत्वादि तद्विषयकत्वं तज्ज्ञाने प्रसिद्धं तदभावः परोक्तार्थज्ञाने विद्यमानो न जानामीत्यनुभवविषय इत्यर्थः / आदिपदेन स्वाविषयनिष्ठव्यावृतिप्रतियोगितावच्छेदकविषयत्वादिकं गृह्यते। परोक्तेऽर्थे ज्ञानमात्रे सत्यपि साक्षात्प्रमाणज्ञानस्याप्यसंभवान्न विरोध इति मतान्तरमाह-केचित्त साक्षादिति / अर्थविशेषिताज्ञानानुभवस्य प्रमाणत्वादविषयत्वाच्च / तस्मिन्सति कथमर्थे प्रमाणज्ञानाभाव इत्याशक्यास्यानुभूयमानाभावप्रतियोगिज्ञानवि
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy