________________ 104 सटीकाद्वैतदीपिकायाम् नापि प्रमाणं भावरूपाज्ञाने पश्यामः। तत्र “अहमज्ञ" इत्यनुभवस्तावन्न प्रमाणम अहमर्थस्य भावरूपाज्ञानानाश्रयत्वेन तत्प्रामाण्याय तत्प्रत्यक्षस्य 'सुखं न जानामि" इति प्रत्यक्षवत् ज्ञानाभावविषयत्वात् / परोक्षज्ञानानिवर्तकत्वेन सत्यपि तस्मिन्न जानामीत्यनुभवापातात् / नापि त्वदुक्तमर्थं न जानामीत्याद्यनुभवस्तत्र प्रमाणम् तस्यापि तव मते जडविषयाज्ञानाभावेन ज्ञानाभावविषयत्वस्यैव वक्तव्यत्वात् / ज्ञानाभावविषयत्वेनाभिमतान्नयि ज्ञानं नास्तीति ज्ञानादहमज्ञ इति ज्ञानस्य विशेषणविशेष्यभावव्यत्यासं विनेच्छा द्वेषादिज्ञानस्येव विषयभेदाप्रतीतेश्च / न च प्रतियोगिज्ञानसत्त्वासत्त्वयोरात्मनि ज्ञानाभावानुभवो न संभवतीति वाच्यम् / इदानी ब्रह्मसाक्षात्कारप्रागभावस्य सत्त्वेन तद्ज्ञानस्य त्वयापि वक्तव्य किं भावरूपाज्ञाने प्रत्यक्ष प्रमाणम्, अनुमानं वा, अर्थापत्तिर्वा श्रुतिर्वा ? / आद्येऽपि किम् “अहमज्ञः” इत्यनुभवस्तत्र मानं, "वदुक्तमयं न जानामि” इत्यनुभवो वा ? / "न किंचिदवेदिषम्” इति परामर्शमूलसौपुप्तिकाज्ञानानुभवो वा ? तत्राद्यं दूषयति-- तत्रेति / "अहमज्ञ" इति ह्यहमर्थाश्रिताज्ञानं प्रतीयते त्वभिमताज्ञानस्याहंकारकारणवेन तदाश्रितत्वायोगात्तत्प्रामाण्यमहंकाराश्रितागन्तुकज्ञानाभावरूपाज्ञानविषयकत्वेनैच निर्वहणीयं यथा “-सुखं न जानामि'' इत्यनुभवस्य सुखविषयज्ञानाभावरूपाज्ञानविषयकत्वेनैव प्रामाण्यं सुखविषयभावरूपाज्ञानस्य त्वयाऽप्यनभ्युपगमात्तद्वदित्याह--अहमर्थस्येति 'अज्ञो न जनामि" इत्यनुभवस्य भावरूपाज्ञानगोचरत्वे तव मते परोक्षज्ञानस्य तदनिवर्तकत्वाद सुमितवह्नयादावपि भावरूयाज्ञानसत्त्वात् वह्नि न जानामीत्यनुभवापात इत्याह--परोक्षेति / ननु त्वदुक्तमर्थं न जानामीत्यर्थविशेषितमज्ञानमनुभूयते / ज्ञानाभावरूपाज्ञानस्य च तज्ज्ञान दशा वामसंभवाद्भावरूपाज्ञानमेव तद्विषय इति तत्तत्र मानमिति द्वितीयमाशक्य तव मते जडार्थविषषभावरूपाज्ञानाभावादस्प तद्विषयत्वानुपपत्तेर्वक्ष्यमाणविधया ज्ञानाभावविषयत्वमेवाभ्युपेयमिति दूषयति--नापिवदुक्तमिति / सिंहावलोकनन्यायेनाहमज्ञ इत्यनुभवस्य ज्ञानाभावविषयत्वे युक्त्यन्तरमाह-- ज्ञानाभावेति / ननु त्वदुक्तमथं न जानामीत्वत्र किमर्थज्ञाने गृहीते तदभावोऽनुभयते उतागृहीते ? नाद्यः / ज्ञानविशेषणतयाऽर्थस्यापि ज्ञातत्वेन तज्ज्ञानाभावरूपाज्ञानस्यैवाभावेन तदनुभवासंभवात् / न द्वितीयः, प्रतियोगिज्ञानरूपकारणाभावेऽभावज्ञानायोगादित्यत आह-- न च प्रतियोगीति / प्रतियोगिविषयकज्ञानातिरिक्तार्थज्ञानाभाव एव न जानामीत्यनुभवविषयः / इतरयोक्तन्यायेन तव मते ब्रह्मज्ञानाभावस्येदानीमननुभवापातादित्यभिप्रेत्याह-- इदानीमिति / किं च अर्थज्ञाने सति तवज्ञानमेव न संभवति तदज्ञाने च तद्विशेषितप्रतियोगिनोऽप्यज्ञानात्तदभावानुभवायोग इत्येतद्भावरूपाज्ञानेपि तुल्यमित्याह-मावेति /