________________ द्वितीयः परिच्छेदः 103 न, अज्ञानं न विरोधिसंसगि अनादिभावत्वात् आत्मवदित्यनुमानात् 'यः पर्वतः सोऽनग्निकः' इति विशेषव्याप्तिप्रसङ्गात् त्वदभिमताज्ञानस्यासिद्धः / विशेषव्याप्त्यभावाद् भाववैलक्षण्यानिवृत्तौ ध्वंसात्यन्ताभावादेरपि निवृत्त्यापातात् / प्रतिभासशरीरस्याज्ञानस्य तत्प्रतिभाने साक्षिणि सति निवृत्त्ययोगाच्च / शुक्त्यवच्छिन्नचैतन्यनिष्ठाज्ञानस्यानादित्वासम्भवेन लक्षणस्य तत्राव्याप्तेः। शुद्धं ब्रह्म वृत्तिव्याप्यमपि नेति मतेऽज्ञानस्य तद्ज्ञानानिवर्त्यत्वाच्चाव्याप्तिः / न ह्यन्याज्ञानमन्यज्ञानेन निवर्तते। एवं जीवन्मुक्तिकालीनेऽप्यज्ञानेऽव्याप्तिः। तस्य ज्ञाननिवर्त्यत्वे स्वकार्ये आरब्धकर्मभिः सहैव पूर्वकालीनसाक्षाकारेणैव निवृत्त्यापातात् / नापि भ्रमोपदानत्वमज्ञानलक्षणम् / अनुत्पादितभ्रमाज्ञानेऽव्याप्तेः / मायावच्छिन्नं ब्रह्मवोपादानमितिमतेऽसंभवात् मायाब्रह्मणी द्वितन्तुरज्जौ सूत्रद्वयवदुपाराने इति मते ब्रह्मण्यतिव्याप्तेश्च / इति / विशेषव्याप्तिरपि किं त्वदभिमताज्ञाने मदभिमताज्ञाने वा ? / नाद्यः / भावरूपाज्ञानस्य ममारि द्धत्वादित्याह - त्वदभिमतेति / न द्वितीयः / मदभिमताज्ञानस्य ज्ञानप्रागभावस्य स्वनिवृत्तिरूपज्ञाननिवर्त्यत्वाभावादिति भावः / प्रतिप्रयोगं दूषयति-भावेति / न च ध्वंसादेरपि ज्ञानानिवृत्तिरिष्टेति वाच्यम् / ध्वंसस्य निवृत्त्या ध्वस्तघटस्य पुनरुन्म ज्जनापत्तेः / अत्यन्ताभावादश्च निवृत्ती तत्त्वव्याघात इत्याशयः / किं चाज्ञानस् / प्रतिभासमात्रशरीरत्वाङ्गीकारात्तत्प्रतिभासे नित्यसाक्षिणि सति कथं तद्विनाश इत्याहप्रतिभासेति / किं . च प्रातीतिकरजताधुपादानाज्ञानस्यावच्छिन्नचैतन्यनिष्ठत्वादवच्छेदकशुक्तयादेरागन्तुकत्वेन तदवच्छिन्नरूपस्यागन्तुकत्वात्तनिष्ठाज्ञानस्यानादित्वासम्भवेन तत्राव्याप्तिरित्याह-शुक्त्यवच्छिन्नेति / वाचस्पतिमते शुद्धब्रह्मणो वृत्तिविषयत्वस्थायभावात्तद्विषयकमूलाज्ञानस्य निवपत्त्वासंभवात्तत्राव्याप्तिरित्याह-शुद्धमिति / उपहितब्रह्मज्ञानादेव शुद्धब्रह्मविषयाज्ञानं निवर्ततामित्यत्राह-न हीति / किं च जीवन्मुक्तस्य प्रारब्धकर्मोपादानाज्ञानलेशस्य ज्ञाननिवत्य॑त्वायोगात्तत्राव्याप्तिरित्याह-एवमिति / तदपि प्रारब्धकर्मक्षयानन्तरं ज्ञानेनैव निवर्ततामित्याशझ्याह-तस्येति / द्वितीयं लसणं दूषयति-नापीति / अनुवादितेति / स्कीतालोकमध्यवर्तिघटादौ प्रथमत एव विशेषज्ञानोत्पत्तेस्तदज्ञानस्यानुत्पाद्यैव भ्रमं ततो विनाशात्तत्राव्याप्तिरित्यर्थः / यन्मते मायावच्छिन्नं ब्रह्मैवोगादानं, तन्मते मायःयास्तन्तुत्वादिवत्तदवच्छेदकत्वेनानुपादानत्वादसंभवश्चेत्याह-मायेति / यन्मते मायाब्रह्मणोः समप्राधान्येन जगदुपादानत्वं तन्मते ब्रह्मण्यतिव्याप्तिरित्याह-मायाब्रह्मणीति / एवमज्ञाने लक्षणाभावं प्रतिपाद्य प्रमाणाभावं प्रतिजानीते-नापीति /