SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 102 सटीकाद्वैतदीपिकायाम् वाच्यम् / तथा सत्यनादिपदवैयर्थ्यात्, असंभवाच्च / कल्पितत्वेन दोषजन्यत्वनियमात्तस्यानादित्वानुपपत्तेः। अज्ञानं नानादि ज्ञाननिवर्त्यत्वात् / न चाज्ञानसंबन्धे व्यभिचारः तस्य पक्षतुल्यत्वात् न चाज्ञानत्वानधिकरणत्वमुपाधिः पक्षे. तरत्वात् अपि चानादेरभावविलक्षणस्यात्मवन्न ज्ञाननिवर्त्यत्वम् / न च भावत्वं आत्मत्वं वोपाधिः / अत्यन्ताभावेऽसति च साध्याव्याप्तेः / ननु सादित्वमनादित्वं वा विनाशाविनाशयोन निमित्तं, कि तु विरोधि. सन्निपातासन्निपातौ। कि च 'अनादिभावो न निवर्तते' इति सामान्यज्याप्तेः 'अज्ञानं ज्ञाननिवर्त्यम्' इति विशेषव्याप्तिर्बलीयसी। अभाववैलक्षण्यादात्मवद. निवृत्तौ भाववैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यात् इति चेत् / अविद्यासम्बन्धस्याविद्यानिवृत्तिद्वारा तन्निवय॑त्वान्न तत्रातिव्याप्तिरित्याशक्य तानादिपदव्यावय॑शुक्तिरजतादेः साक्षात्पदेनैव व्यावृत्तत्वादनादिपदवैयर्थ्यापातादिति दूष. यति-न च साक्षादिति / न च साक्षाज्ज्ञाननिवत्येच्छादावतिव्याप्तिवारणायानादिपदमिति वाच्यम् / इच्छादेः सिद्धान्ते ज्ञाननिवर्त्यताऽन घुपगमात्परमतेऽपि तस्य ज्ञानत्वेन तन्निवर्यत्वाभावाच्चेति भावः / कल्पिताज्ञानस्य शुक्तिरजतवदनादित्वमसंभवि चेत्याह -अज्ञानमिति / यस्याज्ञानानादित्वमसंमतं, तस्य तत्संबन्धानादित्यमपि तथेति न तत्र व्यभिचार इत्याहन चेति / उक्तहेतोप्प्यत्वासिद्धि निराकरोति-न चेति / पक्षेतरत्वादिति (विशेषणस्य) पक्षमात्रव्यावर्तकविशेषणत्वात्वापक्षेतरत्वम् / तस्याधुपावित्वेऽतुमानमात्रोच्छेदापात इति भावः। अज्ञानस्यानाद्यभावविलक्षणत्वाभ्युपगमे तस्य ज्ञाननियर्वत्वमप्यसंभवि तत एवात्मवत्तदभावानुमानादित्याह --अपि चेति / आत्मनो ज्ञानानिवर्त्यत्वेऽन्यदेव प्रयोजकमित्याशङ्क्याह - न चेति / अत्यन्ताभावस्थासतो वा ज्ञाननिवर्यत्वाभावेऽपि भावत्वादेरभावात्तत्र साध्याव्याप्तिरित्यर्थः / / ननु सादित्वेऽपि यावद्विरोधिसंनिपातमविनाशात्तत्संनिपात एव विनाशित्वे प्रयोजक इत्यविनाशे तदभावः प्रयोजकः / तथा चानादिभावरूपस्याप्यज्ञानस्य विरोधिसन्निपाते विनाशो दुर्निवार इति शङ्कते-नन्विति / ___"न हिंस्यात्सर्वा भूतानि” इति सामान्यशास्त्राद् यथा ''अग्नीषोमीयं पशुमालभेत" इति विशेषशास्त्रस्य बलवत्त्वम्, एवं त्वदुक्तव्याप्त्यपेक्षया 'अज्ञानं ज्ञाननिवर्त्यम्' इति विशेषव्याप्तेर्बलीयस्त्वाद्भावरूपाज्ञानस्यापि ज्ञाननिव-त्वसिद्धिरित्याह--किं चेति / अज्ञानस्यानाद्यभावविलक्षणत्वेनाविनाशानुमानं प्रतिप्रयोगग्रस्तं चेत्याह-अभावेति / यदृक्तमज्ञानस्य विरोधिसन्निपाताद्विनाशोपपत्तिरिति तत्राह-न अज्ञानमिति / अज्ञानं ज्ञाननिवर्त्यमिति विशेषव्याप्तिर्बलीयसीत्येतदतिप्रसङ्गेन दूषयति-यः पर्वत
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy