________________ द्वितीयः परिच्छेदः 101 अथवाऽज्ञानमेवोपाधिः। विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते / आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति // इति स्मृत्या तस्यैवोपाधित्वावगमात् / कार्योपाधिरित्यादिश्रतिश्च नाज्ञानोपाधित्वं निवारयति, कित्वन्तःकरणावच्छिन्नो व्यवहारयोग्य इति तस्य स्पष्टोपाधित्वाभिप्राया। न चाज्ञानस्यास्वच्छत्वान्न प्रतिबिम्बाश्रयत्वमिति वाच्यम् / त्रिगुणात्मकस्य तस्य सत्त्वगुणप्रयुक्तस्वाच्छ्यस्यापि सत्त्वात् / जीवोपाध्यज्ञानस्यापि जीवाश्रयत्वस्य वक्ष्यमाणत्वात् जीवे भ्रान्त्यादिजनकत्वाच्च जीवस्य ब्रह्मण्यज्ञानमित्यनुभव इति / अज्ञानलक्षणम् ननु किमिदमज्ञानम् ? / न तावदनादिभावरूपत्वे सति ज्ञाननिवर्त्यत्वं तल्लक्षणम् / अविद्यासम्बन्धे अतिव्याप्तेः / न च साक्षाज्ज्ञाननिवर्त्यत्वं विवक्षितमिति अज्ञानप्रतिबिम्वितं चैतन्यं जीवः, तद्विम्बरूप ईश्वर इति मतेनाह--अथ वेति / किं तत्र मानमित्याशक्य तद्भावभावमापन्नस्तदाऽसौ परमात्मना / भवत्य भेदी भेदश्च तस्याज्ञानकृतो भवेत् // इति जीवेशभेदस्थाज्ञानाधीनतामुक्त्वा "विभेदजनके ज्ञाने' इत्यज्ञाननाशात्तभेदाभावाभिधायकविष्णुपुराणवचनमत्र मानमित्याह--विभेदेति / “कार्योपाधिरयं जीवः" इति श्रुतिविरुद्धोऽयं पक्ष इत्याशयोक्तस्मृत्यनुरोधेनेयं श्रुतिरयोगव्यवच्छेदपरा न त्वन्धयोगव्यवच्छे स्परा इत्याह--कार्येति / अज्ञानस्य तमोरूपत्वान्न प्रतिबिम्बोपाधित्वमित्याशक्य दिशुद्धसत्त्वप्राधान्येन तदुपपत्तिरित्याह--न चेत्यादिना / यदुक्तम्अज्ञानस्य जीवनिष्ठत्वानुभवान्न तस्य जीवत्वप्रयोजकतेति तत्राज्ञानस्य जीवाश्रयत्वमङ्गीकृत्याज्ञानजीवत्वयोरनादित्वात्साक्षिमात्रभास्यत्वाच्च नोत्पत्त्यादौ परस्परापेक्षा स्थितावान्योन्यप्रयोजकत्वं द्रव्यत्वगुणवत्त्वादाविवाविरुद्धमित्यनन्तरवादे वक्ष्यत इत्याह--जीवोपाधीति / चिन्मात्राश्रयमज्ञानमिति मते तस्य कथं जीवसम्बन्धानुभव इत्याशक्याह--जीव इति / भावरूपाज्ञाने लक्षणप्रमाणायोरभावात्तदेव नास्ति, कुतस्तस्य जीवोपाधित्वमित्यभिप्रेत्य चोदयति--नन्विति / अनादिभावत्वे सति ज्ञाननिवर्त्यत्वमज्ञानलक्षणम्। उत भ्रमोपादानत्वमिति किं शब्दार्थः / तत्राद्यं दूषयति-न तावदिति / नन्वत्र साक्षाज्ज्ञाननिवर्त्यत्वं विवक्षितम्।