SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 100 सटीकाद्वैतदीपिकायाम् अज्ञानस्यास्वच्छस्य प्रतिबिम्बाश्रयत्वायोगात् / अहमनुभवागोचरस्य तस्य जीवोपाधित्वे मानाभावात् / / कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः। इति श्रुतिविरोधात् / जीवस्य ब्रह्मण्यज्ञानमित्यज्ञानस्य जीवसंबन्धित्वावगमाच्च / नापि मिथ्याज्ञानं तद्वासना वा। तयोरपि कादाचित् कत्वात् / एभ्योऽन्य उपाधिस्तु प्रमाणविहीनः शङ्कितुमपि न शक्यत इति चेत्, उच्यते। अन्तःकरणमुपाधिः "कार्योपाधिरयं जीवः" इति श्रुतेः, अहमित्यनुभवगोचरत्वाच्च / न च सुप्त्यादौ तदभावः / तत्राप्यन्तःकरणस्य सूक्ष्मतया सत्त्वात् / न चैवमज्ञानोपाधित्वापत्तिः। दुनिरूपेणापि सूक्ष्मरूपेण तत्सत्त्वस्यावश्यकत्वात् / 'कार्योपाधिरयं जीवः'' "कोशांश्च सृष्ट्वा प्रविश्य'' इत्यादिश्रुत्याऽहमनुभवेन च तस्यैव जीवभेदनिमित्तत्वावगमात् / उत्पत्तेः पूर्वमपि कार्यस्य कारणात्मनाऽवस्थाने कथं कार्यकारणभावः, कथं वा कार्यार्थिनः कारणगवेषणा ? इत्याशय कार्यस्य कारणातिरेकेण सत्त्वाभावेऽपि तत्तदतिनिर्वचनीपस्थूलाकारापेक्षया कार्यकारणभावायुपपत्तिरित्याह-तस्मादिति / फलितमाह-इतीति / सुषुत्वादावन्तः करणस्थाज्ञानात्मनैवावस्थाने तस्यैवावस्थात्रयानुयायिनो जीवोपांवित्वापातेन तृतीयपक्षान्तर्भाव इत्याह-तहीति / तद्यज्ञानमेव तदुपाधिरिति पक्षोऽस्त्वित्याशङ्क्याह-तदपीति / किमज्ञानं दर्पणादिवभेदकम्, उत घटादिवत् ? / नाद्य इत्याह-अज्ञानस्येति / जीवोपाधि विवे वनम् द्वितीयं दूषयति-अहमनुभवेति / घटाकाशज्ञाने घटवनियमेन जीवज्ञानेअज्ञानाप्रतीतेन तस्य घटवद्भेदकत्वमित्यर्थः / अज्ञानस्य जीवोपाधित्वं श्रुतिविरुद्धञ्चेत्याहकार्येति / ब्रह्मविषयाज्ञानस्य जीवाश्रितत्वानुभवात् जीवत्वस्थ तदधीनत्वे परस्पराश्रयप्रसङ्ग इत्यभिप्रेत्याह-जीवस्येति / चतुर्थपञ्चमौ दूषयति --नापीति / षष्ठं दूषयति-- एभ्य इति / सत्त्वप्रधानमायाप्रतिबिम्बमीश्वरः, अन्तःकरणप्रतिबिम्बं तु जीव इति मतमाश्रित्याह--उच्यत इति / अत्र च श्रुत्यनुभवी मानमित्याह--कार्येत / यदुक्तं सुषुप्तावन्तः करणस्य नाशात्तदनादिजीवत्वाप्रयोजकमिति तत्राह--न चेति / कार्यस्य कारणात्मतापत्तेरेव सूक्ष्मत्वादज्ञानोपाधितापत्तिरित्युक्तं दूषयति--न चैवमिति / "नवेह किंचनाग्र आसीत्" "मृत्युनवेदमावृतमासीत्” इति श्रुतौ सृष्टिपूर्वं कार्यकारणयोरावृतावरकभावेन भेदाभिधानाल्लयकालेऽपि कारणातिरेकेणानिर्वचनीय कार्य सूक्ष्मरूपमस्त्येव इतरथा सुषुप्तावन्तः करणाभावे तद्गतपुण्यपापादेरभावेन पुनरुत्यानाद्ययोगादिति भावः / सुषुप्तावज्ञानान्तः करणयोः सतोः कथमन्तः करणस्यैवोपाधित्वमित्याशक्याह--कार्येति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy