________________ द्वितीयः परिच्छेदः कर्तुः स्थायिनोऽभावात्स्मृत्यादिविरहप्रसङ्गः / नाप्यन्तःकरणमुपाधिः। तस्यापि कार्यत्वात्, सुषुप्तिप्रलययोविनाशाच्च / अथ सुषुप्तिप्रलययोनत्यिन्तं तस्य विनाशः पुनरनुत्पत्तिप्रसङ्गात् / ननु न विनष्टस्य पुनरुत्पत्तिः। तत्र मानाभावात् / किन्तु तज्जातीयस्यैवेति चेत् / न, असत उत्पत्त्यनुपपत्त्या विनष्टकार्यस्य स्वकारणात्मना स्थितस्य पुननिमित्तयोगादभिव्यक्तः / कार्यभेदे प्रमाणाभावाच्च / परिमाणभेदस्य जलकादाविवाविरोधात। एकस्मिन्नपि वृक्षाद्यवयविनि मूलाग्रभेदेन परिमाणभेदानुभवाच्च / न चावयवपरिमाणभेद एव तथाऽनुभूयत इति वाच्यम्। वृक्षत्वसामानाधिकरण्येनैवानुभवात् / अन्यथाऽवयविनि परिमाणमात्रविलोपप्रसङ्गात् / कार्यस्य कारणाभेदे वा तुलिततन्त्वारब्धपटे द्विगुणगुरुत्वोपलम्भप्रसङ्गात् / तस्मात्कारणमेव कार्यस्वरूपम, आकारस्त्वनिर्वचनीयो भिद्यत इति सति कारण नात्यन्तं विनाश इति चेत् / तहि सुप्त्यादावन्तःकरणकारणमज्ञानं वर्तत इत्युक्तं स्यात् / तथा च तदेव जीवोपाधि स्यात् / तदपि न संभवति / प्रागुत्पत्ते शानन्तरं च कास्यासत्त्वानभ्युपगमान्नोक्तदोष इति शङ्कतेअथेति / सुषुप्तावसत्त्वपर्यन्तं नाशे पुनर्जाग्रत्युत्पत्तिर्न स्यात्, असत उत्पत्त्ययोगादित्याहपुनरिति / कार्यस्य विनाशानन्तरासत्त्वमेव, पश्चादुत्सतिस्तु तदन्यस्यैवेत्यसत्कार्यवादी शङ्कते-नन्विति / असत उत्पत्तेः साक्षिविवेके निरस्तत्वाद्विनाशसामग्रया कारणात्मतामापादितस्योत्पत्तिसामग्रया पुनः स्थूलाकारेणाभिव्यक्तिरेवेति परिहरति-नासत इति / यदुक्तं विनष्टादेव तज्जातीयं कार्यनुत्पद्यत इति, तत्राह- कार्येति / ननु बालस्थविरशरीरयोस्तदन्वयिदुःखाद्युपलम्भेन तदुपादानान्तःकरणपरिमाणभेदस्यावश्यकत्वात् परिमाणभेदाच्च भेदोऽनुमीयत इत्याशङक्यैकस्मिन्नपि कालभेदात्परिमाणभेददर्शनान्मैवमित्याह- परिमाणेति / ___ एकस्मिन्नैवैकदापि परिमाणभेदोऽवच्छेदकभेदेन दृष्ट इत्याह एकस्मिन्निति / ननु मूलाद्यवयवारिमाणमेव भेदेन प्रतीयते न वृक्षपरिमाणमित्याशक्य मूले स्थूलो वृक्षः अग्रे सूक्ष्म इति वृक्षत्वसादेश्यानुभवान्मैवमित्याह-न चावयवेति / अवयविनि प्रतीयमानपरिमाणभेदस्य बाधकाभावेऽयवयवधर्मत्वकल्पने बाधकमाह-अन्यथेति / कार्यकारणयोर्भेदाभावादपि नैककारणजन्यकार्याणां भेद इत्यभिप्रेत्य तयोर्भेदे बाधकमाह -कार्यस्येति / कार्यकारणयोर्भेदे कारणगतगुरुत्वव्यतिरेकेण कार्ये गुरुत्वान्तरस्यावश्यकत्वात्तुलायामारब्धपटकतन्त्वारोपे पूर्वोपलब्धगुरुत्वादधिकगुरुत्वमुपलभ्येतेत्यर्थः /