________________ सटीकाद्वैतदीपिकायाम् न चात्मसत्तातिरिक्तसत्ताहीनस्योपाधेः कथमात्मप्रतिबिम्बोपाधित्वमिति वाच्यम् / अधिष्ठानातिरिक्तसत्ताभावेऽपि आरोपितस्यासद्विलक्षणतया घटादेरिव स्वोचितकार्यकरत्वात् / विम्बप्रतिबिम्बभेदानुमनानि चानुकूलत्तर्वाभावादन्यथासिद्धानि, उक्तप्रतिकूलतर्कपराहतानिच तस्माल्लोके बिम्बप्रतिबिम्बयोस्तिवाभेदाज्जीवब्रह्मणोरप्यभेदो वास्तव इति। कस्ता पाधिः ? / न तावत्स्थूल. शरीरम् कादाचित्कस्य तस्यानादिजीवोपाधित्वायोगात् / जीवस्यानादित्वाभावे कृतहानाकृताभ्यागमादिदोषप्रसङ्गात् / अत एव क्षणिकविज्ञानमात्रं जीव इत्ययं पक्षोऽनुपपन्नः / तत्कृतधर्मादेयात्सुखादेराकस्मिकत्वप्रसङ्गाच्च ।स्वर्गायुपदेशेन चैत्यवन्दनाद्यननुष्ठानप्रसङ्गात् / सन्तानिव्यतिरिस्थायिसन्तानाभ्युपगमे सर्व क्षणिकमिति पक्षक्षतिः / सन्तानस्य द्रष्टुत्वाभ्युपगमे स एव स्थाय्यात्मा स्यात् / तस्य तदनभ्युपगमे वा द्रष्टुः पपन्न इत्याशझ्यासद्विलक्षणत्वा स्वसमानसत्ताकात्मभेदवत्त्वादयक्रियासमर्थत्वाच्च दर्पणादिवत्प्रतिबिम्बोपाधित्वोपत्तिरित्याह--न चेत्यादिना / चलत्वाचलत्वप्राङ्मुखत्वप्रत्यङ्मुखत्वादीनि बिम्बभेदानुमाने लिङ्गान्यप्रयोजकानीत्याह-बिम्बेति / चकारोऽनुक्तसमुच्च पार्थः। अभेदानुभवबाधितानि चेत्यर्थः / जीवपरयोबिम्बप्रतिबिम्बभावोपपादनफलमाह--तस्मादिति / अभेदो वास्तव इत्युक्त्या भेदस्यौपाविकत्वमभिप्रेतं तत्रोपाधिमाक्षिपतिकस्तहीति / किं स्थूलशरीरं जीवपरभेदे उपाधिः, अन्तःकरणं वा, अज्ञानं वा, भ्रान्तिज्ञानं वा, तत्संस्कारो वा, अन्यद्वेति किंशब्दार्थः / स्थूलशरीरस्यागन्तुकत्वेनानादिजीवविभागप्रयोजकत्वाभावान्नाद्य इत्याह--न तावदिति / जीवत्वमप्यागन्तुकमित्यत आह-- जीवस्येति / कृतहानादिदोषप्रसङ्गादेव सुगतमतम यनुपपन्नमित्याह--अत एवेति / तत्र कृतहानादिकमेव विशदयति-तत्कृतेति / तेन वेदप्रामाण्यानङ्गीकारादग्निहोत्रादिधर्मवेयर्थ्यं तस्येष्टमित्याशय तदभिमतधर्मस्यापि वैययं स्यादित्याह--स्वर्गादति / विज्ञानानां क्षणिकत्वेऽपि तत्संतानस्यैकत्वान्ननकृतहानादिप्रसङ्ग इत्याशक्य किं क्षणिकविज्ञानातिरिक्तः संतानः तदनतिरिक्तो वेति मनसि निधायाचं दूषयति-- संतानीति / किं च स्थायिसन्तानस्य द्रष्टुत्वस्ति न वा ? आये तस्यैवात्मत्वान्मदिष्टसिद्धिरित्याह-सन्तानस्येति / विकल्पद्वयेऽपि द्वितीयं दूषयति--तस्येति। द्वितीयं दूषयति-नापीति / एतस्मात् जायते प्राणो मनः सर्वेन्द्रियाणि च”। "सुषुप्तिकाले सकले विलीने तमोऽभिभूत" इत्यादिना मनस उत्पत्त्यादिश्रवणात्तदुपाधिकस्य जीवत्वे कृतहानादिप्रसङ्ग इत्यभिप्रेत्याह-तस्यापीति /