________________ 97 द्वितीयः परिच्छेदः न च गगने रूपमस्त्येव 'नीलं नभः' इति बुद्धर्बाधाभावादिति वाच्यम / समीपस्थेऽपि गगने रूपानुभवप्रसङ्गात् / उच्चतरपर्वतशिखरमारूढस्य पूर्वप्रतीतरूपगगनप्रदेशस्यैव नीरूपत्वानुभवाच्च। त्रिवृत्करणस्यैव श्रुतिसूत्रयोः सिद्धत्वाच्च / क्व तहि चक्षुरन्वयव्यतिरेकयोरुपयोग इति चेत् / न, आकाशव्यापिप्रभाज्ञाने एव तदुपयोगात् / तस्मादाकाशस्य चाक्षुषत्वायोगात् लिङ्गाद्यनुसंधानं विनाऽप्यनुभवात्साक्षिप्रत्यक्षमात्रमाकामिति / श्रुति सिद्धात्मप्रतिबिम्बस्य नीरूपत्वेन निरासायोगाच्च। चाक्षुषप्रतिबिम्बस्यैव रूपवद्विम्बकत्वनियमाच्च / अन्यथा रूपस्पर्शवत एव द्रव्यस्य प्रत्यक्षत्वं दृष्टमिति त्वदभिमतात्मा प्रत्यक्षो न स्यात् / . पृथिव्यादाविव गगनेऽपि रूपं स्वाभाविकमेवेति मतं दूषयति-न चेति / रूपं किं गगने व्या यवृत्ति उताव्या'यवृत्ति ? / आद्ये दोषमाह-समीपेति। न द्वितीयः रूपस्याव्याप्यवृत्तित्वायोगात् / तदङ्गीकृत्यापि दोषमाह--उच्चतरेति / / पञ्चीकरणन्यायेनाका ऽपि रूपमस्तीत्यत्र दूषणान्तरमाह--त्रिवृत्करणस्येति / __ “तासां त्रिवृतं त्रिवृतमेकैकामकरोत्” इति श्रुतौ "संज्ञामूत्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात्" [ ब्र० सू० 4-2-3] इति सूत्रे च तेजोबन्नानां त्रिवत्करणस्यैवोक्तत्वात्पञ्चीकरणं विनाऽनुपपत्त्यभावेन तत्कल्पनायोगाच्च तदेवासिद्धमित्यर्थः। आकाशस्याचाक्षुषत्वे तज्ज्ञाने चक्षुरन्वयव्यतिरेकविरोध इति शङ्कते--कब तीति / अनवच्छिन्नाकाशाप्रतीतेस्तदवच्छेदकालोकज्ञाने चक्षुष उपयोग इत्याह-न आकाशेति / कथं ताकाशप्रतीति रित्याशक्य परिशेषात्साक्षिप्रत्यक्षगम्यं तदित्याह-तस्मादिति / लिङ्गाद्यनुसंधानं विनापीति | वर्णात्मकः शब्दो नित्यः सर्वगतश्च / ध्वन्यात्मकस्तु वायुधर्म एवेति मतानुसारिणामपि नीलं नभ इति प्रतीति दर्शनाच्चक्षुषेदमंशज्ञाने तत्रत्यरजतवदालोके चक्षुषा ज्ञाते तदवच्छिन्नं नभः साक्षिमात्रभास्यमित्यर्थः / एक एव हि भूतात्मा भूते भूते व्यवस्थितः / एकधा बहुधा चैव दृश्यते जलचन्द्रवत् // “यथा ह्ययं ज्योतिरात्मा विवस्वान्' इत्यादिश्रुतिबाधितविषय चात्मप्रतिबिम्बाभावानुमानमित्याह-श्रुतिसिद्धेति / बिम्बस्यैव व्यत्यस्ततया गृहीतस्य' प्रतिबिम्बत्वाद्विम्बस्य रूपवत्त्वाभावे प्रतिबिम्बस्थ चाक्षुषत्वापोगाच्वाक्षषद्रव्यप्रतिबिम्बस्यैव रूपवबिम्बकत्वं न प्रतिबिम्बमात्रस्येत्याह-चाक्षुषेति / प्रमाणसिद्धस्यापि युक्तितोपलापे बाधकमाहअन्यथेति / अद्वैतवादेऽविद्योपाधेरात्मातिरेकेण सत्त्वाभावात्तत्रात्मनः प्रतिबिम्बभाव एवानु१३