SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् यत्त बिम्बप्रतिबिम्बयोरभेदे प्रतिबिम्बजीवज्ञानादेव मोक्ष इति / तत्र किं जीवत्वविशिष्टज्ञानान्मोक्ष उत कर्तृजीवस्य यत्स्वरूपं ब्रह्म तज्ज्ञानात् ? // नाद्यः / भ्रान्तेरविद्यानिवर्तकत्वायोगात, अभेदविषयाज्ञानस्य जीवत्वज्ञानानिवर्त्यत्वाच्च / न द्वितीयः / इष्टापत्तेः। न च बिम्बप्रतिबिम्बयोरभेदे सर्वज्ञत्वकिंचिज्ज्ञत्वयोः सांकर्यप्रसङ्ग इति वाच्यम् मुखश्यामत्वावदातत्वादेरिव कल्पितभेदेन तद्व्यवस्थासंभवात् / यत्त्वचाक्षुषस्यात्मनो गन्धादिवत्प्रतिबिम्ब एव न स्यात् कुतो व्यवस्थेति, तन्न। अचाक्षुषस्यापि गगनस्य प्रतिबिम्बदर्शनात् / न च गगनमपि चाक्षुषमेव, तज्ज्ञानस्य चक्षुरन्वयव्यतिरेकानुविधानादिति वाच्यम् / नीरूपस्यापि चाक्षुषत्वे वायोरपि तत्प्रसङ्गात् / पञ्चीकरणन्यायेन गगने रूपमस्तीति चेत् / न, रूपहीनभागस्याधिकत्वेन चाक्षुषत्वायोगात् / अन्यथा वायावपि प्रसङ्गतादवस्थ्यात् / सदृष्टान्तमाह-परमेश्वरेति / धर्म्यभेदमात्रेणातिप्रसङ्गस्तव मतेऽपि तुल्य इत्याह-- अन्यथेति / जीवब्रह्मणोरभेदे जीज्ञानेनापि ब्रह्मज्ञानप्रयोजनं स्यादिति चोद्यान्तरमनुवदतियत्त्विति / किं जीवविषयभ्रान्तिज्ञानान्मोक्ष आपाद्यते उत तद्याथात्म्यज्ञानादिति विकल्पयति--तत्रेति / रजतभ्रमेण शुक्तयज्ञानानिवृत्तेर्न भ्रान्त्या तन्निवृत्तिरित्याह-नाद्य इति / किं चाज्ञानस्य स्वसमानविषयज्ञाननिवर्त्यत्वादज्ञानाविषयजीवत्वज्ञानेन न तन्निवृत्तिरित्याह-अभेदेति / जीवस्य पारमार्थिकस्वरूपब्रह्मज्ञानान्मोक्षापादनमिष्टमिति द्वितीयं दूषयति - न द्वितीय इति / सर्वत्र विरूद्धधर्माणां स्वसमानसत्ताकर्मिभेदेन व्यवस्थितत्वात्सर्वज्ञत्वकिंचिज्ज्ञत्वादीनामपि तादृशर्मिभेदेन व्यवस्थोपपत्तेस्तन्मात्रेण सांकर्यापादनमयुक्तमित्याह--न चेत्यादिना / __ आत्मा प्रतिबिम्बत्वादिरहितः अचाक्षुषत्वाद् गन्धादिवत् / तथा च श्यामत्वा. दिवन्न सर्वज्ञत्वादेर्व्यवस्थेति चोद्यं व्यभिचारेण दूषयति -यत्त्वित्यादिना / गगने हेतोरेवाभावान्न व्यभिचार इत्याशङ्क्याह--न चेति / चक्षुरन्वयव्यतिरेकयोर्वक्ष्यमाणविधयाऽन्यथासिद्धिरित्यभिप्रेत्य गगनस्य चाक्षुषत्वे बाधकमाह--नीरूपस्येति / सिद्धान्ते पञ्चीकरणाङ्गीकाराद्गगने रूपवदंशस्यापि सत्त्वान्नीरूपत्वमसिद्धमित्याशङ्कते--पञ्चीकरणेति / तथाऽपि वायाविव रूपहीनांशस्याधिकत्वादचाक्षुषत्वमित्याह-न रूपेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy