SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः एवं "रूपं रूपं प्रतिरूपो बभूव" इति परमेश्वरस्य प्रतिरूपतदभेदी दर्शयति / नचात्रान्तर्यामिण एव प्रतिरूपत्वमुच्यत इति वाच्यम् / बिम्बात्मनैव परमेश्वरस्य नियन्तृत्वाद्युपपत्तौ जीवभावानुप्रवेशव्यतिरिक्तप्रवेशान्तरस्य एकेनैव सकलजगन्नियमनाद्युपपत्तौ तद्भेदस्य चानपेक्ष्यत्वात् श्रुतेरतदर्थत्वात् / प्रतिबिम्बभावेन प्रविष्टस्य मौढयश्रुतेश्च तस्यान्तर्यामित्वानुपपत्तेः / प्रतिबिम्बवादे बाधानिरासः। एतेन बिम्बप्रतिबिम्बयोरभेदे वारिस्थादित्यस्य दर्शननिषेधेन नभस्थस्यापि तत्स्यादिति प्रत्युक्तम् / धर्म्यभेदेऽपि धर्मभेदेन व्यवस्थोपपत्तेः / अन्यथोपरक्तादित्यदर्शननिषेधेन केवलस्यापि दर्शननिषेधप्रसङ्गात् / न च बिम्बप्रतिबिम्बादित्ययोरभेदे प्रतिबिम्बदर्शनादेव बिम्बादित्यदर्शननिमित्तशास्त्रार्थोऽनुष्ठितः स्यादिति वाच्यम्। परमेश्वरविग्रहस्यकत्वेऽपि मञ्चस्थपरमेश्वरदर्शनेन रथस्थपरमेश्वरदर्शनाऽसिद्धिवद्वारिस्थसवितृदर्शनेन नभस्थत्वादिविशिष्टदर्शनासिद्धः। अन्यथा नभस्थत्वविशिष्टादित्यदर्शनेनैवोपरक्तत्वादिविशिष्टादित्यदर्शनफलमपि स्यात् / ईश्वरस्यैव शरीराद्युपाधिषु प्रतिबिम्बभावेन जीवत्वस्य मुखत एव श्रवणान्न जीवेशभेदः परमार्थ इत्याह -एवमिति / नन्वीश्वरस्य तत्तनियमनाय तत्र तत्र प्रतिरूपभाव एतन्मन्त्रार्थ इत्याशक्य बिम्बरूपेश्वरस्यैवेच्छामात्रेण सर्वनियमनसंभवात्तदर्थं प्रतिबिम्बभावस्य तन्नानात्वस्य चानपेक्षितस्य तदर्थत्वायोगादित्याह--नचात्रेत्यादिना / "कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते / “स एष इह प्रविष्ट आनखाग्रेभ्यः / स प्राणन्नेव प्राणो नाम भवति" इत्यादिना प्रविष्टस्य मौढ्यप्राणनादेः श्रवणादपि न प्रविष्टस्य नियन्तृत्वमित्याह-प्रतिबिम्बेति / एवं वास्तवभेदे बाधकमुक्त्वा पुनरप्यभेदे परोक्तं बाधकान्तरमपाकरोतिएतेनेति / एतच्छब्दार्थमाह-धर्मीति / जलस्थत्वरूपधर्मावच्छेदेन दर्शननिषेधः नभस्थत्वरूपेण तदभाव इति व्यवस्थेत्यर्थः / धर्म्यभेदमात्रेणाव्यवस्थायामतिप्रसङ्गमाह-अन्यथेति / ननु चण्डालादिदर्शनप्रायश्चित्तत्वेनादित्यादिदर्शनं तद्दर्शने ज्योतिषां दर्शनमित्यादि शास्त्राद्विधीयते / तदर्थश्चादित्यादिप्रतिबिम्बदर्शनेनाप्यनुष्ठितः स्यात् / तव मते तस्य तदभेदादित्याशक्य किमादित्यादिदर्शनमात्रं तच्छास्त्रार्थः उत नभस्थादित्यदर्शनम् ? आये प्रतिबिम्बदर्शनस्याप्यादित्यादिस्वरूपविषयताया उपपादितत्वात्ततोऽपि तदर्शनमात्रं शास्त्रार्थोऽनुष्ठित एव / नभस्थादित्येऽस्पष्टोपरागं शरावजलस्थतत्प्रतिबिम्बे दृष्ट्वा स्नानाद्यर्थं प्रयतन्ते वृद्धाः। गणेशचतुर्थ्यां निषिद्धं चन्द्रदर्शनं जलादावपि परिहरन्तीत्यभिप्रेत्य दूषयति-न चेति / द्वितीये प्रतिबिम्बदर्शनान्न नभस्थत्वेनादित्यदर्शनसिद्धिरिति
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy