________________ सटीकाद्वैतदीपिकायाम् मानत्वात् / अत एवात्रोपाध्यवच्छिन्नांशो जीव इत्येव तदर्थः किं न स्यादिति निरस्तम्। दृष्टान्ते जलस्य सूर्यसंबंधाभावेनावच्छेदकत्वाभावात् / निरंशस्य वास्तवोपाधिसंबन्धाभावेन तदवच्छेदानुपपत्तेश्च / किं च यद्यवच्छिन्नं ब्रह्म जीवभावमापद्यत तीनवच्छिन्नब्रह्मणः सर्वगत्त्वादिश्रुतिविरुद्ध्येत। अवच्छेदकाभावविशिष्टत्वलक्षणानवच्छिन्नत्वस्य प्रतियोगिवैशिष्ट्याश्रयप्रदेशाश्रयत्वायोगात् / “य आत्मनि तिष्ठन्" इति च जीवव्यावृत्तरूपेणैव सर्वगत्वादिश्रवणात् / बिम्बत्वं तु सर्वगताधिष्ठानव्याप्यवृत्तीति तद्विशिष्टं ब्रह्मापि सर्वगतमिति न प्रतिबिम्बपक्षे दोष इत्याचार्याः। न च सर्वगतस्येश्वरस्य चैत्रस्य गृह इव मण्डूकस्य पाषाण इव वा प्रवेश उपपद्यते, किं तु सूर्यो जले प्रविष्ट इत्यत्र यथा तस्य प्रतिबिम्बभाव एव प्रवेशशब्दार्थ एवमीश्वरस्याप्यज्ञानाद्युपाधिषु जीवरूपेण प्रतिबिम्वभाव एव प्रवेशश्रुत्यर्थ इति भावः / बिम्बप्रतिबिम्बदृष्टान्तेन जीवपरभेदस्य श्रुतिसिद्धत्वाद्धटाकाशमहाकाशवदवच्छिन्नानवच्छिन्नभावेन तयोर्भेद इति मतमयुक्तमित्याह-अत एवेति / विवस्वतोऽपि बहूपाध्यवच्छेदेनैव बहुभावो दृष्टान्तश्रुत्यर्थो, न प्रतिबिम्बभावेनेत्याशङ्क्याह-दृष्टान्त इति / असंभवादपि नायं पक्ष उपादेय इत्याह-निरंशस्येति / ब्रह्मण उपाध्यवच्छिन्नरूपेण जीवत्वम्, अनवच्छिन्नरूपेणेश्वरत्वं, तभेदश्च यथार्थ एवेति मते विराडुपाधिभूतब्रह्माण्डानवच्छिन्नेश्वरस्य तदन्तरालवतित्वायोगात्तप्रत्यचेतनाचेतननियन्तृत्वानुपपत्तिरित्यभिप्रेत्याह-किं चेति / ननु सिद्धान्ते सप्रपञ्चस्यापि निष्प्रपञ्चत्ववदवच्छिन्नस्याप्यनवच्छिन्नत्वं किन्न स्यादित्याशक्य तव मते उपाध्यवच्छेदस्य वास्तवत्वेन तवैशिष्टयाश्रयावच्छिन्नप्रदेशे तदभावविशिष्टत्वरूपानवच्छिन्नत्वस्य विरुद्धत्वेनासंभवान्नानवच्छिन्नस्य सर्वगतत्वमित्यभिप्रेत्याह-अवच्छेदकेति / ननु ब्रह्मणश्चिद्रूपेणैव सर्वगतत्वं सर्वनियन्तृत्वं च नेश्वररूपेणेत्याशक्य "य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद, यस्यात्मा शरीरं, य आत्मानमन्तरो यमयति" इति जीवभिन्नरूपेण नियन्तृत्वश्रवणानियम्यजीवस्यापि चिद्रूपत्वे तेन रूपेण नियन्तृत्वायोगाच्चेत्यभिप्रेत्याह—य आत्मनीति / ननु प्रतिबिम्बवति प्रदेशे बिम्बस्याप्यभावान्न बिम्बरूपेश्वरस्यापि सर्वगत्वमित्याशक्य मुखादिगतबिम्बत्वस्य तत्र व्याप्यवृत्तित्वदर्शनात्सर्वगतचैतन्यवृत्तिबिम्बत्वमपि तद् व्याप्य वर्तते इति तद्विशिष्टचिद्रूपेश्वरस्यापि सर्वगतत्वाद्युपपद्यते इत्याहबिम्बत्वमिति /