________________ द्वितीयः परिच्छेदः ननु मा भूदन्यत् तदेव तद्रूपविशिष्टतया यथा दर्पणादौ प्रतीयते, एवं तदगतगन्धरसादिविशिष्टमपि प्रतीयतामिति चेत् न, चक्षुषो गन्धरसाद्यग्राहकत्वात् / ध्राणादेश्च स्वदेशसनिकृष्टग्राहिणोऽसन्निकृष्टगन्धाद्यग्राहकत्वात् / तव मते चायं दोषो दुष्परिहरः / कस्तूरिकादिच्छायायास्तज्जातीयरूपवत्तत्सजातीयगन्धरसादेरप्यावश्यकत्वात् / रूपस्य चक्षुषाऽसनिकृष्टेनापि ग्रहणवद्गन्धादेरप्यसनिकृष्टघ्राणादिना ग्रहणप्रसङ्गात् / अत एव "नोपरक्तं न वारिस्थम्" इतिस्मार्तव्यवहारोऽपि नगौण इति बिम्बप्रतिबिम्बयोरभेदे मानं भ्रमविरोधिभेदज्ञानस्यैव गौणत्वप्रयोजकत्वात् / आत्मनः प्रतिबिम्बे प्रमाणानि / न चात्मनः प्रतिबिम्बे मानाभावः। “यथा ह्ययं ज्योतिरात्मा विवस्वान" इत्यादिविवस्वत्प्रतिबिम्बदृष्टान्तेन जीवपरयोर्भेदानुवादश्रुतेः, प्रवेशश्रुतेश्च / तत्र किं चक्षुषा गन्धरसादिभ्रम आपाद्यते उत तद्ग्रा कघ्राणादिना? नाद्यः / चक्षुषस्तत्प्रमायामिव तभ्रमेऽप्यहेतुत्वादित्याह-न चक्षुष इति / द्वितीयं दूषयति-घ्राणादेश्वेति / प्राणरसनादीनां चक्षुर्वबहिनिर्गमनाभावेन प्रतिहतसन्निकर्षायोगाद्यत्र स्वयं वर्तते नासाग्रादौ तत्र कस्तूरिकादेरभावादधिष्ठानसामान्यज्ञानाभावेन तत्र दर्पणस्थत्वाद्यारोपायोगादित्यर्थः / यन्मते वस्तुत एवोपाधौ प्रतिबिम्बमस्ति तन्मते एवायं दोष इत्याह-तव मत इति / दर्पणगतच्छायादौ गन्धादेरेवाभावात्तदनुपलम्भ इत्याशक्य यद्गतं रूपं यत्र स्वसजातीयरूपारम्भकं तद्गतगन्धस्यापि तत्र स्वसजातीयगन्धारम्भकत्वनियमात्तत्र गन्धादिकमावश्यकमित्याह -कस्तूरिकादीति / तथापि दर्पणान्तर्गतगन्धस्य घ्राणासन्निकृष्टत्वान्न तद्ग्रह इत्याशङ्क्याह-रूपस्येति / असन्निकृष्टेनेति च्छेदः / यदुक्तं वारिस्थमादित्यमिति स्मार्तव्यवहारो गौण इति, तदप्ययुक्तमित्याह-अत एवेति / अतः शब्दार्थमेवाह--भ्रमविरोधीति / न हि भेदज्ञानमात्रमभेदव्यवहारस्य गौणत्वप्रयोजकं नभःस्थचन्द्रभेदज्ञाने सत्यप्येक एवायं चन्द्र इति व्यवहारस्य अभेदज्ञानस्य मुख्यत्वात्, किन्त्वभेदभ्रमविरोध्येव भेदज्ञानं तथा / यथा माणवके सिंहभेदज्ञानम् / बिम्बप्रतिविम्बयोस्तु भेदज्ञाने सत्यपि तव भ्रमत्वेन सम्मतस्याभेदज्ञानस्यानुवर्तमानत्वान्न तद्व्यवहारस्य गौणत्वमित्यर्थः। बिम्बप्रतिबिम्बयोरभेदेऽपि जीवस्य ब्रह्मप्रतिबिम्बत्वे मानाभावान्न तयोरभेद इत्याशङ्क्याह-न चात्मनः इति / प्रवेशश्रुतेश्चेति / 'तत्सृष्ट्वा तदेवानुप्राविशत्तदनुप्रविश्य कोशांश्च सृष्ट्वा प्रविश्यानेन जीवेनात्मनाऽनु प्रविश्य" इत्यादिः स्रष्टुरेवेश्वरस्यसृष्टोपाधिषु प्रवेशः श्रूयते /