________________ सटीकाद्वैतदीपिकायाम् अत एवोक्तदोषपरिहाराय दर्पण एव मुखसंसर्ग आरोप्यतामिति निरस्तम् / अन्यथाख्यातेनिरसिष्यमाणत्वाच्च / मुखप्रतिमुद्रैव प्रतिबिम्बमित्यप्यत एव निरस्तम् जलादेबिम्बसंश्लेषाभावात् / जले पादादिप्रतिमुद्राया अप्यनुपलम्भप्रसङ्गाच्च। तस्मात्प्रत्यभिज्ञापरिशेषाभ्यां बिम्बप्रतिबिम्बयोरमेद इति / किं च दर्पणं मुखाधारो न भवति मुखकारणशून्यत्वात् / न च प्रतिबिम्बस्य छायात्वमते सिद्धसाधनम् तस्य निरस्तत्वात् / नाप्यसिद्धिः। दर्पणे सुखकारणसद्भावस्य निरस्तत्वात् / यतु बिम्बप्रतिबिम्बयोरभेदे कस्तूरिकादिप्रतिबिम्बादौ गन्धाधुपलम्भप्रसङ्ग इति, तन्न। बिम्बान्यप्रतिबिम्बकस्तूर्याद्यभावात् / मुखादिप्रतिमुद्रव प्रतिबिम्बमिति मतान्तरं दूषयति-मुखेति / अत एवेति / प्रत्यभिज्ञादिविरोधादेवेत्यर्थः / मुद्राया उपाधिसंसर्गे सत्येव प्रतिमुद्रोत्पत्तेर्नभस्स्थादित्यादेजलादिसंयोगाभावान्न तत्र तत्प्रतिमुद्रा सम्भविनीत्याह- जलादेरिति--जलादिगतप्रतिबिम्वस्थ प्रतिमुद्रात्वे प्रत्यक्षता च न स्यादित्याह-जलेति / किं च प्रतिमद्राया उपाधिरूपसजातीयरूपवत्वाद्दर्पणस्थप्रतिबिम्बस्य प्रतिमुद्रात्वे रक्तरूपादेर नुपपत्तिः। प्रतिमुद्राश्रयस्य दर्पणस्य समतलताऽनुपपत्तिः / बिम्बापाये तत्प्रतिमुद्रापायानुपपत्तिश्चेत्याद्यनुक्तसमुच्चयश्चशब्दार्थः। मुखप्रतिबिम्बस्य च्छायाद्यात्मकतानिरासात्परिशेषान्मुखत्वसिद्धिः, प्रत्यभिज्ञाविरोधान्मुखान्तरत्वानुपपत्तेःग्रीवास्थ नुखाभेदसिद्धिश्चेत्याह--तस्मादिति / बिम्बप्रतिबिम्वाभेदेऽनुमानमप्याह--किं चेति / मुखकारणश्र न्यत्वादिति / तदुपादानसंसर्गरहितत्वादित्यर्थः / तथा च न मुखावयवे व्यभिचारः / एकावयवस्येतरावयवसंसृष्टत्वेन तत्र हेतोरभावात् / अत्र परोक्तदोषमपवदति-न चेति / छायात्वमत इति द्रव्यान्तरत्वमते प्रतिमुद्रात्वमते चेत्यपि द्रष्टव्यम् / प्रतिबिम्बं मुखान्तरमिति मते दर्पणे तदुपादानाङ्गीकारादसिद्धो हेतुरित्याशझ्याह-नापीति / तथा च दर्पणस्य मुखाधारत्वे निषिद्धे ग्रीवास्थमेव मुख दर्पणस्थतया भातीति सिद्धयतीति भावः / अत्र परोक्तं बाधकमनुवदति दूषयितुम्-पत्विति / वस्तुतो दर्पणादौ प्रतिबिम्ब सुररीकृत्य तस्य बिम्बाभेदम् न ब्रूमः / येन तत्रापि कस्तूरिकादेः सत्वेन तद्गन्धोपलंभः स्यात्किन्तु बिम्बमेव दर्पणस्थतया भान्त्या प्रतीयमानं प्रतिबिम्बमिति / तथा च दर्पणादौ कस्तूरिकादेरेवाभावान्न तत्र गन्धोपलम्भ इत्याह-तन्नेति / बिम्बान्यतया प्रतीयमानकस्तूरिकादेर्दर्पणादावभावादित्यर्थः / / __ननु कस्तूरिकादेर्दर्पणादावभावेन तत्र तद्गन्धप्रमा मा भूत् तत्र तद्गतरूपादिभ्रमवत्तद्गन्धभ्रमोऽपि किन्न स्यादिति शङ्कते-नन्विति /