________________ द्वितीयः परिच्छेदः 91 न च जलादेर्न यनप्रतिघातकत्वेन नजलस्थसूक्ष्मग्रहः स्यादिति वाच्यम् / केषाश्चिच्चक्षुषोरवयवानां परावृत्त्य स्वमुखसंयोगेऽपि केषाञ्चित्तदन्तर्गतपदार्थसंयोगेन तदवगमसंभवात् / एतेन नयनादिप्रतिबिम्बोऽपि व्याख्यातः। यत्त्वीषत्स्वच्छतानादौ मुखसंस्थानाप्रतीत्या न प्रत्यभिज्ञानमिति, तन्न / तत्रापि मुख स्पष्टम् न प्रतीयत इत्यनुभवादेव मुखमात्रस्य धर्मिमात्रस्य वा प्रत्यभिज्ञासंभवात् / यत्त प्रतिबिम्बंपश्यामि, न चैत्रम' चैत्रस्तु तेनानुमीयत इत्यादि, तन्न / दर्पणे चैत्रम् पश्यामीत्यनुभवात्, वगितरीत्या सर्वत्र बिम्बसन्निकर्षसम्भवाच्च / चैत्रम् न पश्यामीत्यनुभवस्तु चैत्रस्य देशविशेषाज्ञानविषयः / आत्मप्रतिबिम्बे तु नेयं विधा / तत्र ब्रह्मचैतन्यस्य स्वतः सिद्धप्रकाशत्वाच्चक्षुराधनपेक्षणात् / यदप्युक्त दर्पणवज्जलस्यापि दृष्टिप्रतिघातकत्वेन दर्पणान्तः स्थितवज्जलान्तः स्थितमपि न भायादिति, तदयुक्तम् / जलादेविरलावयवद्रव्यत्वेन केषांचिन्नयनरश्मीनां तदन्तः प्रवेशोपपत्तेरित्यभिप्रेत्याह-न च जलादेरिति / यदपिचोक्तं स्चनेत्रगोलकादावभिज्ञाभावात् तत्प्रतिबिंबे तदेवेदं नेत्रमित्यादिप्रत्यभिज्ञानुपपत्तिरिति तदप्ययुक्तं दर्पणाभिहतदृष्टया स्वनेत्रगोलकादेरपि व्यस्ततया ग्रहणात् अभिज्ञादेरुपपत्तिरित्याह-ऐतेनेति / क्वचित्प्रतिबिंबे बिबाभेदप्रत्यभिज्ञाभावः स्पष्ट इत्युक्तमनूद्य दूषयति-यत्त्वित्यादिना, धर्मिमात्रस्य वेति / तदेवेदमित्येवमाकारेणेव्यर्थः / प्रतिबिम्बज्ञानसमये बिम्बज्ञानाभावस्यैवानुभूयमानत्वाद्विम्बसन्निकर्षप्रत्यभिज्ञयोरसम्भव इति परोक्तं चोद्यमनुवदति-यत्विति / प्रतिबिम्बज्ञानस्यैब चैत्रविषयत्वेनानुभवात्तज्ज्ञानाभावोऽनुपपन्न इत्याह तन्नेति / ननु बिम्बज्ञानकारणसन्निकर्षाभावात्तज्ज्ञानानुभवो भ्रम इत्यत आह-वर्णितेति / दर्पणे चैत्रं पश्यामीत्यनुभवान्न पश्यामीत्यनुभवस्तदतिरिक्तदेशे तदज्ञानविषयः अतस्तदनुमानमपि तस्य देशविशेषसंसर्गविषयमित्यभिप्रेत्याह-चैत्रमिति / यदुक्तम् चक्षुरगोचरात्मप्रतिबिम्बे नायं प्रकारः सम्भवतीति तदङ्गीकारेण परिहरति-आत्मेति / चानुषप्रतिबिम्बभूमे हि चाक्षुषाधिष्ठानसामान्यज्ञानाय प्रतिहतसन्निकर्षापेक्षा, आत्मप्रतिबिम्वभूमे त्वधिष्ठानचिदात्मनः स्वप्रकाशत्वेन तद्भानस्य स्वतः-सिद्धत्वात् तद्भमस्य चाचाक्षुषत्वाच्च न चक्षुराद्यपेक्षेत्यर्थः / अलौकिकसन्निकर्षकल्पनारूपदोषभयात् सन्निकृष्टोपाधावेव मुखसंसर्ग आरोप्यतामित्यन्यथाख्यातिवादिनश्चोर्य दूषयति-अत एवेति / स्मर्यमाणारोपासम्भवेन प्रतिहतचक्षुः सन्निकर्षस्यावश्यकत्वादेवेत्यर्थः। तृतीये परिच्छेदेऽन्यथाख्यातेनिरसिष्यमाणत्वाच्च न तन्मतमादर्तव्यमित्याह-अन्यथेति / मधूच्छिष्टादावङ्ग लीयकप्रतिमुद्रावद्दर्पणादौ