________________ 90 सटीकाद्वैतदीपिकायाम् स्तयोः प्रतिबिम्बगतरूपाद्यजनकत्त्वात् / न च तयोः बिम्बकारणतावच्छेदकत्वमेव न तु कारणत्वमिति वाच्यम्। स्वतन्त्रान्वयव्यतिरेकविरोधात् / अन्यत्रापि विषयगतयोस्तथात्वप्रसङ्गात् / . आवरणद्रव्यस्य प्रतिहतनयनरश्मिसम्बन्धविघटनं विनैव प्रतिबन्धकत्वे चक्षः सन्निकर्षमात्रस्य कारणत्वविलोपप्रसङ्गात् / प्रतिहतसन्निकर्षानङ्गीकारे गृहान्तर्गतस्याकाशोदिताद्भुतप्रतिबिम्बम्रमाभावप्रसङ्गात् / तस्मादनन्यथासिद्धचक्षुरन्वयव्यतिरेकाभ्यां नयनोन्मीलनसमनन्तमेव तस्य मार्तण्डमण्डलसंयोगकल्पनवदर्पणादिना प्रतिहतस्यापि नयनस्य परावृत्त्य यथोपलम्भं स्वपरबिन्बसंयोगः कल्प्यः / न चास्मिन्पक्षे दर्पणस्यान्यथासिद्धत्वादेकदर्पणइव तद्भदेऽप्येकमेव मुखं प्रतीयेतेति वाच्यम् / अनेकदर्पणस्थत्वारोपे अनेकेषु मुखमिति प्रतीत्युपपत्तेः / एकमेव मुखमनेकदर्पणेषु भिन्नवत्प्रतीयत इत्यनुभवात् / येति चेत् / न घटादिज्ञान इव प्रतिबिम्बज्ञानेऽपि स्वतन्त्रान्वयव्यतिरेकाभ्यां कारणत्वस्यैव न्याय्यत्वादित्याह-न च तयोरिति / अन्यथा घटादावपि तयोश्चाक्षुषज्ञानकारणतावच्छेदकतापातेनापसिद्धान्तः स्यादित्यभिप्रेत्याह-अन्यत्रापीति / किं च कुड्यादिव्यवधानस्य प्रतिबिम्बज्ञानप्रतिबन्धकत्वात्तत्र तदभावापेक्षेति वाच्यम् / तथा च कुड्यादेः किं चक्षुषो बिम्बसन्निकर्षरूपकारणविघटकत्वेन प्रतिबन्धकत्वमुत साक्षात् ? / आये बिम्बसन्निकर्षः प्रतिहतचक्षुष आवश्यक इत्यभिप्रेत्य द्वितीयं दूषयति-आवरणेति / चक्षुःसन्निकर्षेति / चक्षुर्विषययोरव्यवधाने सति सन्निकर्षाः भावेन चाक्षुषज्ञानाभावादर्शनात् तत्सन्निकर्षः कुत्रापि कारणं न स्यादित्यर्थः। ननु स्मर्यमाणमुखादेरेव दर्पणादावारोपाभ्युपगमे परावृत्तचक्षुषो बिम्बसन्निकर्षोऽकल्प्यः चाक्षुषारोपस्यारोपप्यगतस्थौल्याद्यपेक्षितत्वात्तस्याप्यन्यथोपपत्तिरित्याशङ्क्याह-प्रति - हतेति / गृहान्तःस्थितेन बहिःस्थितजलादावाकाशेऽभिनवतयोत्पन्नस्य पूर्वमननुभूतस्योल्कायुद्भूतस्य प्रतिबिम्बदर्शनात् स्मर्यमाणारोपपक्षे तदनुपपत्तेः। कुड्यादिव्यवहितस्यापि स्मर्यमाणस्य जलादौ प्रतिबिम्बभ्रमप्रसङ्गाच्चेति भावः / ननु नयनोन्मीलनानन्तरमेव प्रतिबिम्बं दृश्यते उपाधिप्रतिहतनयनस्यादित्यादिबिम्बसन्निकर्षापेक्षायां विलम्बःस्यादित्याशङ्कामुपसंहारव्याजेन निराकरोति-तस्मादिति / एकस्येवानेकस्यापि दर्पणादेः प्रतिघातद्वारा चक्षुषो विम्बसन्निकर्षमात्र एवोपयुक्तत्वादेकस्मिन्निवानेकेषु तेष्वेकमेव मुखं भायादिति चोद्यमपवदति-न चेति / अनेकदर्पणाभिघातरूपदोषदुष्टचक्षुषा मुखस्यानेकदर्पणस्थत्वारोपात्तदनेकत्वभ्रम इत्याहअनेकेति / न चैतदुत्प्रेक्षामात्रं, कि त्वेवमेवानुभवोऽपीत्याह-एकमेवेति /