________________ 8 द्वितीयः परिच्छेदः ननु मुख एव दर्पणस्थत्वाद्यारोपे पश्चाद्भागवतिमुखप्रतिबिम्ब न प्रत्यक्ष स्यात्। अधिष्ठानेन्द्रियसंप्रयोगाभावादिति चेत् / न, लौकिकप्रतिबिम्बस्थलेऽस्त्येव चक्षुषोऽधिष्ठानसम्बन्धः / बिम्बस्योपाधिप्रतिहतनयनरश्मिभिर्ग्रहणनियमाभावे परमाणोः कुड्यादिव्यवहितस्थूलस्यापि चक्षुषा प्रतिबिम्बभ्रमप्रसङ्गात् / न चाव्यवहितस्थूलोद्भूतरूपवत एव चाक्षुषप्रतिबिम्बभ्रमो नान्यस्येति वाच्यम्। स्थौल्योद्भूतरूपयोः स्वाश्रयचाक्षुषज्ञानहेतुत्वेनाधिष्ठानस्य चाक्षुषज्ञानानङ्गीकारे तद्गतयोरनपेक्षितत्वात् // अथ प्रतिबिम्बज्ञाने न तयोर्हेतत्वं, कि त प्रतिबिम्बितरूपादाविति चेत / न, द्रव्यान्तरं मुखान्तरं वा प्रतिबिम्बमिति मते बिम्बस्य निमित्तत्वेन तद्गतयो चित्प्रतिबिम्बभ्रमस्याचाक्षुषत्वान्न तत्राधिष्ठानेन्द्रियसन्निकर्षापेक्षा। रूपवत्प्रतिबिम्बस्य सर्वत्रान्वयव्यतिरेकाभ्यां चाक्षुषत्वात् / दर्पणान्तर्वतिच्छायाविशेषादौ चक्षुः संप्रयोगासम्भवस्योक्तत्वादुपाधिप्रतिहतनयनरश्मिसंयुक्तमेव स्वमुखं स्वपृष्ठदेशस्थशरीरादिकं च तत्तत्प्रतिबिम्बात्मना भातीत्यवश्यमभ्युपेयम् / तथा च दर्पणाभिहता दृष्टिः परावृत्य स्वमाननम् / / इत्येतदयोगव्यवच्छेदपरं, नत्वन्ययोगव्यवच्छेदपरमित्यभिप्रेत्याह-लौकिकेति / ननु चक्षुष उपाधिसन्निकर्ष एव प्रतिबिम्बग्रहहेतुर्नतु बिम्बसन्निकर्षः / तथा च प्रतिहतदृष्टेर्न बिम्बसन्निकर्षः कल्प्य इत्याशङ्क्याह-बिम्बस्येति / बिम्बगतयोर्महत्त्वोद्भूतरूपयोः कुड्याद्यव्यवधानस्य च तत्प्रतिबिम्बज्ञानहेतुत्वात् न परमाण्वादिप्रतिबिम्बप्रहप्रसङ्ग इत्याशङ्क्याह-न चेति / किं बिम्बगतोद्भूतरूपादेः साक्षात्प्रतिबिम्बग्रहहेतुत्वम्, उत स्वाश्रयचाक्षुषज्ञाद्वारा ? / नाद्यः। तस्य घटादौ स्वाश्रयचाक्षुषज्ञानहेतुतायाः क्लुप्तत्वेनान्यत्र चाक्षुषज्ञानाजकत्वादित्याह-स्थौल्येति / द्वितीये चक्षुषो बिम्बसन्निकर्षः कल्प्योऽन्यथा तत्र चाक्षुषज्ञानायोगादित्युपाधिप्रतिघातेन व्यावृत्तचक्षुषस्तत्संनिकर्ष आवश्यक इति भावः / - बिम्बगतोद्भूतरूपादेः प्रतिबिम्बज्ञानाहेतुत्वेऽपि तत्र न तदनपेक्षा, प्रतिबिम्बचाक्षुषज्ञानहेतुभूततद्गतोद्भूतरूपादिजनकत्वेन बिम्बगतस्यापेक्षितत्वादिति शङ्कतेअथेति / उपादानगतगुणानामेव तत्कार्ये स्वसमानजातीयगुणारम्भकत्वात्परमते बिम्बस्य प्रतिबिम्ब निमित्तकारणत्वान्मैवमित्याह-न द्रव्यान्तरमिति / ननु प्रतिबिम्बज्ञाने तद्गतरूपादौ वा न बिम्बगतरूपाद्यपेक्षा किं तु दण्डत्वादेरिव बिम्बस्य तत्कारणतावच्छेदकत 12