________________ 88 . सटीकाद्वैतदीपिकायाम् अत एव तस्य तदा न ज्ञानानिवृत्तिः / विषयावरणस्यैवाज्ञानस्य स्वसमानविषयज्ञानेन निवृत्तः। न च तदाऽऽवरणाभावे कथं तत्र भ्रमहेतुत्वमज्ञानस्येति वाच्यम् / भ्रमविरोधिविशेषदर्शनाभावे सति अज्ञानमात्रात्तदुत्पत्तः। अत्र च नास्ति तादृशं विशेषदर्शनम् / उपाधिना प्रतिबद्धस्य तस्य तदविरोधित्वात् // अथ वा मूलाज्ञानमेव तत्र कारणम् / न चैवं व्यावहारिकत्वापत्तिः / अविद्यातिरिक्तदोषाजन्यत्वस्यैव तत्प्रयोजकत्वात् / अस्ति चात्रातिरिक्तो दोषः। अस्तु तहि दर्पणेऽनिर्वचनीयं मुखमिति चेत् / न, आदर्श मुखं नास्तीति संसर्गमात्रनिषेधात् / भेदमात्रकल्पनयाऽपि मुखभेदप्रतीत्युपपत्तौ धर्मिकल्पनागौरवात्। नात्र मुखं तदेवेदमित्यनुभवाच्च / विषयश्चेति / नुखाभेदस्य प्रमितत्वात्स नाज्ञानविषय इत्यर्थः / ततश्च तदज्ञानस्योपलम्भायोग्यत्वान्नानुपलब्धिविरोध इत्याह--इतीति / भेदादिभ्रमहेतोरज्ञानस्य मुखाविषयत्वादेव न तस्य तज्ज्ञानेन निवृत्तिरित्याह-- अत एवेति / आवारकाज्ञानस्यैव विक्षेपहेतुत्वात्कथमनावारकाज्ञानाद्भेदभ्रमः / अन्यथा दर्पणाद्यभावेऽपि तत्प्रसङ्गादित्याशङ्कयाह--न चेति / अतिप्रसङ्गपरिहारायाहभ्रमविरोधीति / दर्पणसन्निधानेऽपि विशेषदर्शनसत्त्वात्कथं भ्रम इत्याशङ्कयोपाध्यभावविशिष्टस्यैव तस्य तद्विरोधित्वात्, सत्युपाधौ न विरोधितेत्याह-अत्र चेति / ___एवं मुखादावनावारकमवस्थाज्ञानमङ्गीकृत्य तद्विलासो भेदादिभ्रम इत्युक्तम्, संप्रति मूलाज्ञानविलास एवायं भ्रम इति मतान्तरमाह-अथ वेति / अत्राप्युक्तदोषमपवदति-न चैमिति / अत्राविद्यातिरिक्तदोषाजन्यत्वमेव व्यवहारिकत्वे तन्त्रं, न तु मलाज्ञानजन्यत्वम् / अजन्याज्ञानादौ तदभावात् / मुखभ्रमस्याविद्याऽतिरिक्तदर्पणाद्यभिघातरूपदृष्टिदोषजन्यत्वान्न व्यावहारिकतेत्यर्थः / ननु भेदादिवत्प्रतिबिम्बस्वरूपस्याविद्यकत्वसम्भवान्न तस्य बिम्बाभेद इति शङ्कते-अस्त्विति / यदंशे बाधः, स एव कल्पितः। अन्यथा इदमंशस्यापि तदापातात् / बाधश्च प्रतिबिम्बस्य दर्पणसंसर्गविषय एव दृश्यते, न तु तत्स्वरूपविषयः। नेदं रजतमितिवन्नेदं मुखमित्यदर्शनात् / तथा च ग्रीवास्थमुखे एव व्यत्यासः कल्पित इत्यभिप्रेत्याह-न आदर्श इति / दर्पणऽनिर्वचनीयमुखस्याप्यभावे कथं भेदप्रतीतिरित्याशङ्कय चन्द्रभेदज्ञानवत्तदुपपत्तिरित्याह-भेदमात्रेति / प्रतिबिम्बप्रतीतिकालेऽपि दर्पणे तदभावावगमाबिंबाभेदावगमाच्च न तत्र कल्पितमित्याह-नात्रेति / ननु स्वपृष्ठदेशवर्तिपुरुषप्रतिबिम्बः स्वपुरोवर्तिदर्पणे दृश्यते, तत्रापि तव मते पृष्ठदेशवर्तिपुरुषे एव दर्पणस्थत्वादिकमारोप्यते इति वाच्यम्, तदयुक्तम् / पाश्चिकाधिष्ठानस्य स्वेन्द्रियासंनिकृष्टत्वेनारोपकारणाभावादिति शङ्कते- नन्विति /