________________ 87 द्वितीयः परिच्छेदः व्यवहितस्यापि चक्षुषा ग्रहणं, ग्रीवास्थमेव मुखमत्र भाति, दर्पणे मुखं नास्ति, प्रत्यङ्मखमेव प्राङ्मुखतया भातीति प्रत्ययानामप्रामाण्यं चेति अनेक कल्पनीयम् / मम त्वेकस्मिन्नेव मुखे प्रत्यङ्मुखत्वादिधर्मा एव कल्प्याः / बाधकबलात् प्रत्ययानामप्रामाण्यं चेति लाघवम् / प्रेक्षावतां स्वमुखविशेषपरिज्ञानाय दर्पणाद्युपादानमपि सङ्गच्छते॥ तस्माद् ग्रीवास्थे मुखे दर्पणस्थत्वम्, एकस्मिश्च तस्मिन् भिन्नत्वं, प्राङ्मुखे च तस्मिन्प्रत्यङ्मुखत्वमिति धर्मा एव प्रतिबिम्बभ्रमे आरोप्यन्ते / मुखाज्ञानाभावादारोपो न भवेदित्याक्षेपः ननु मुखे ग्रीवास्थत्वेनानुभूयमाने तद्विषयाज्ञानाभावात्कथं तदारोप इति चेत् / न, मुखैकत्वाद्यावारकाज्ञानाभावेऽपि तदविषयकाज्ञानान्तरस्य तत्र सत्त्वात् / न च तत्र मानाभावः / भ्रमस्येव तत्कार्यस्य तत्र मानत्वात् / न चानुपलम्भबाधः। सविषयकं ह्यज्ञानम् 'इदमहं न जानामि' इति विशिष्यानुभूयते / विषयश्च प्रमाणज्ञानाविषय एवाज्ञानविषय इति विशिष्याननुभवेऽपि तत्सत्त्वात् / ' च कल्प्यत्वात्कल्पनागौरवमित्याशक्य तथापि मितदवयवचक्षुःश्रोत्रादिकल्पनाऽभावात् त्रिचतुराणामेव धर्माणां कल्प्यत्वात्तत्प्रत्ययानां च ग्रीवास्थमेव मुवं दर्पणे भातीत्यादिप्रमितिबाधितत्वेनाप्रामाण्यस्य न्याय्यत्वाल्लाघवमित्याह--ममत्विति / किं च ग्रीवास्थमुखस्यैव दर्पणादावप्रतीतौ तद्दिदृक्षया दर्पणाधुपादानं न स्यात् / अन्यप्रत्यक्षेणान्यस्य प्रत्यक्षत्वायोगात् परोक्षप्रतीतावपि प्रत्यक्षज्ञानाय दर्पणादेरुपादानाद् ग्रीवास्थ नुखस्यैव दर्पणे प्रत्यक्षत्वात् तदुपादानमित्याह-प्रेक्षावतामिति / बिम्बस्यैव प्रतिबिम्बत्वात्तव दर्पणस्थत्वादिकं भ्रान्तिमात्रसिद्धमित्युपसंहरतितस्मादिति / यदुक्तं मुखैकत्वावभासे तदज्ञाननाशाद् भेदभ्रमायोग इत्येतदनुवदति-नन्विति / आवरणशक्तिमदज्ञाननाशेऽपि .विक्षेपशक्तिमदज्ञानसत्त्वात्तदुपादानको भेदाद्यध्यास इत्याह--न मुखेति / अनावारकाज्ञाने मानाभावात्तदेव नास्तीत्याशङ्क्यानिर्वचनीयभेदाद्यध्यास एव स्वपरिणामितया तत् कल्पयति / अनिर्वचनीयकार्यस्यानिर्वचनीयकारणं विनाऽनुपपत्तेरित्याह-न चेति / मुखादावज्ञानकल्पनमनुपलब्धिविरुद्धमित्याशङ्क्याहन चेति / सतोऽप्यज्ञानस्य उपलम्भायोग्यत्वात् अनुपलम्भ इति वक्तुं उपलम्भायोग्यमज्ञानमाह--सबिषयकमिति / मुखादावज्ञानमस्ति चेत्तदपि तद्विषयः स्यादित्याशङ्क्याह