SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् न चैवं दर्पणे मुखं नास्तीति दर्पणमुखसंसर्गनिषेधधीविरोधः। तस्या ग्रीवास्थमुखविषयत्वात् / दर्पणे मम मुखमिति प्रतीतिश्च पुत्रादेरिव स्वशरीरजन्यत्वादप्युपपद्यते। न च प्रत्युत्पन्नदर्पणादौ मुखपरिणामार्थ कारुकर्मापेक्षादर्शनात्तदभावे कथमन्यत्र मुखं जायेतेति वाच्यम् / कारुव्यापारस्य दर्पणस्वच्छतायामेवोपयुक्तत्वात् / मुखप्रतिबिम्बस्य तेन विनापि दर्शनादिति प्रत्युक्तम् / ग्रीवास्थमेवात्र प्रतीयते दर्पणे मुखं नास्ति प्रत्यङ्मुखमेव प्राङ्मुखमनुभूयते इत्यनुभवविरोधात्। किञ्च सन्ति तावच्चतुरङ्गुलविस्तीर्णादर्शादौ गजतुरङ्गादीनां तावत्परिमाणानामेव युगपदसङ्कीर्णानि प्रतिबिम्बानि / तानि कथमादर्शसंयुक्तावयवपरिणामानि भवेयुः ? / अल्पदेशे गजादिशरीराणां तावत्परिमाणानामसङ्करसमवाया. योगात् / न चाल्पपरिमाणान्येव तत्र गजादिशरीराणि जायन्ते स्थूलबुद्धिस्तु भ्रम इति वाच्यम् / 'दर्पणे गजः' इति प्रतीतेरिव 'स्थूलो गजः' इति प्रतीतेः सति बिम्बसन्निधौ बाधाभावात्, 'सूक्ष्मो गजः' इति कदाप्यप्रतीतेश्च // किञ्च तव मते. धर्मी धर्माश्चेत्यनेक कल्पनीयम्, पार्थिवस्यालौकिकस्वभावोऽपि कल्पनीयः, अनेकदेशव्यवहितानामपि दर्पणासंयुक्तावयवैरारम्भः, विषयत्वान्मैवमित्याह-न चैवमिति / प्रतिबिम्ब खस्य बिम्ब मुखाद्' भेदे कथं दर्पणे मम मुखमिति प्रतीतिरित्याशङ्क्य मम पुत्र इतिवदुपपद्यत इत्याह-दर्पण इति / ननु मूषाया पुत्रान्नमात्रे दर्पणे प्रतिबिम्बोत्पत्तौ निघर्षणादिकारुकर्मापेक्षादर्शनाकालान्तरे तदभावात्तत्र कथं प्रतिबिम्बोत्यत्तिरित्याशक्य कारुकर्मणः प्रथममपि प्रतिबिम्बप्रतिबन्धकदर्पणगतमलनिवृत्तावेवोपयुक्तत्वान्न प्रतिबिम्बहेतुतेत्याह-न चेत्यादिना / अत एवेत्युक्तं विवृणोति-ग्रीवास्थमिति / किं च बिम्बसजातीयेषु प्रतिबिम्बेषु प्रतीयमानं परिमाणमपि यथार्थं न वा ? नाद्यः / अल्पपरिमाणे दर्पणजलादौ बिम्बसमपरिमाणानां गजादिप्रतिबिम्बानां परस्परासंसृष्टानामनुभवात्तेषां तत्संसृष्टावयवैस्तत्रारम्भासम्भवादित्याह-किंञ्चेति / द्वितीये बिम्बसमपरिमाणत्वप्रतीतेभ्रमत्वं वक्तव्यम्, तदयुक्तम् / द्रव्यवत्परिमाणेऽपि बाधकाभावादित्याह-न चेत्यादिना / बाधकाभावमेवोपपादयति--सूक्ष्म इति / प्रतीयमानपरिमाणस्यालीकत्वे तत्र परिमाणान्तरे मानाभावान्मुखान्तरत्वाद्यनुपपत्तिरिति चार्थः // प्रतिबिम्बस्य मुखान्तरत्वमतेऽपि कल्पनागौरवदोषो दुर्वार इत्याह-किं चेत्यादिना / ननु तव मतेऽप्यनिर्वचनीयप्रत्यङ्मुखत्वदर्पणस्थत्वबिम्बभेदानां तत्प्रमाऽप्रामाण्यस्य
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy