SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 85 किञ्च छायायां शरीरं तद्विरोध्यालोकोत्सादकत्वेनोपयुज्यते, न तु हेतुः। अन्यथा सर्वतस्तुल्यप्रभावदनेकदीपवेष्टनेपि च्छायाप्रसङ्गात् / एवं पृथिव्यादिव्यवहितदेशे प्रतिबिम्बितनक्षत्रादेः प्रतीत्यनुपपत्तेश्च / असंबद्धस्यापि चक्षुषो ग्राहकत्वेऽतिप्रसङ्गात् / चक्षुषोऽन्वयव्यतिरेकाभ्यां तत्रापेक्षितत्वात् / अपि चैवं तव मते शुक्तिरजतादेरप्यलौकिकस्य संभवात्त्वदभ्युपगताऽसत्ख्यातिरपि न सिद्ध्येत् / तस्मान्न छाया द्रव्यान्तरं वा। अतएव दर्पणे प्रतीयमाने मुखत्वसंसर्गानुभवात् भेदानुभवात्प्रत्यङ्मुखत्वादिविरुद्धधर्मानुभवाच्च मुखान्तरम् न च तदुत्पत्तिकारणाभावः। दर्पणसंयुक्तानां मुखावयवानामेव तदुत्पादकत्वात् / तच्च मुखं गुरुत्वोद्भूतस्पर्शहीनमिति न करावमर्शन मुखप्रतीतिर्न वा गजादिप्रतिबिम्बे दर्पणादेर्दुवहत्वम् / अनुभवादर्पणमुखस्यान्यत्वे सिद्धे पार्थिवद्रव्यस्याप्यनुपलम्भाद् गुरूत्वाभाव सिद्धेः। काभ्यां साक्षादेव हेतुत्वं किं न स्यादित्याशङ्क्याह--अन्यथेति / परमते यथा प्रतिबिम्बोत्पत्तिरनुपपन्ना, एवं तत्प्रतीतिरप्यनुपपन्नेत्याह--एवमिति / जलस्योपरिष्टान्नक्षत्रादि यावद्दूरे प्रतीयते, तत्प्रतिबिम्बमपि तदधस्तात्तावरे प्रतीयत इति सर्वानुभवसिद्धम् / तथा च योजनादिव्यवहिताधस्तनदेशगतस्य प्रतिबिम्बस्य जलाद्याश्रयपृथिव्यादिना व्यवधानादचाक्षुषतापत्तिरित्यर्थः / प्रतिबिम्बमसंनिकृष्टमेव चक्षुषा भासतामित्याशङ्क्याह-असम्बद्धस्येति / अत एव प्रतिबिम्बं न चाक्षुषं किन्तु मानसं, साक्षिगम्यं वा इत्याशझ्यान्धादीनां प्रतिबिम्बादर्शनात्तस्य चाक्षुषत्वमावश्यकमित्याहचक्षष इति / किं च तव मते दर्पणादावलौकिककारणेन प्रतिबिम्बोत्पत्तिवच्छुक्त्यादावपि रजताद्युत्पत्तिसंभवात्तन्नाशसंभवाच्च सत्ख्यात्युपपत्तौ असत्ख्यात्यभ्युपगमो निमूल इत्याह-अपि चेति / नवीनमतनिराकरणमुपसंहरति-तस्मादिति / __ प्रतिबिम्बे मुखत्वतद्वयाप्तधर्मानुभवानां भेदानुभवस्य च प्रामाण्याय मुखान्तरमेव तदिति मतान्तरमपवदति-अत एवेति / अस्य प्रत्युक्तमित्युत्तरेण सम्बन्धः / मुखान्तरोत्पत्तौ कारणाभावात्तदसंभवमाशक्य दर्पणसंयुक्तपुखान्तरावयवानामुपादानत्वाद्दर्पणबिम्बादीनां निमित्तत्वान्मैवमित्याह--न चेति / दर्पणादौ बिम्बसदृशं वस्त्वन्तरमस्ति चेत्, तहि बिम्बवद्धस्तेनापि गृह्येत, गजादिप्रतिबिम्बाश्रयदर्पणादेश्च दुर्वहत्वं स्यादित्याशङ्क्याह-तच्च मुखमिति / ननु गजादेः पार्थिवत्वेन तत्सजातीयप्रतिबिम्बस्यापि पार्थिवत्वात्कथं गुरुत्वाभाव इत्याशक्य पार्थिवत्वेऽपि धूमादाविवानुपलम्भादेव तदभाव इत्याह- अनुभवादिति / अस्मिन्पक्षे मुखभेदानुभवाविरोधेऽपि मुखसंसर्गाभावानुभवविरोध इत्याशङ्कय तस्यान्य
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy