________________ 84 सटीकाद्वैतदीपिकायाम् . कारणजन्यत्वायोगात् / अन्धकारश्च प्रसिद्धद्रव्यविलक्षण एवानुभूयत इति तत्र विजातीयं कारणं कल्प्यम् प्रतिसूर्यादिकं च क्लुप्ततेजआदिद्रव्येष्वेवान्तर्भवति / किञ्च कारणान्तरमपि दर्पणादिसंयुक्तं तदुपादानम्, उत स्वातन्त्र्येण वर्तमानम् ? / नाद्यः। जलाशयतीरे किञ्चिद्रव्यवहितानां वृक्षाणां जलाशयप्रदेशादन्यत्रैव प्रसृतिपरिमितजले ताम्रादौ नक्षत्राोजनादिव्यवधानेन प्रतिबिम्बानुभवात / अन्यत्र स्थितस्योपादानस्यान्यत्र कार्याजनकत्वात् / व्यवहितानुभवो भ्रम इति चेत् / न, त्वन्मते दर्पणे मुखाकारबुद्धेरिव व्यवहितदेशानुभवस्याप्यबाधितत्वात् 'जलोपरि वृक्ष' इति कदाचिदप्यननुभवाच्च / न द्वितीयः। जलादेर्योजनादिव्यवहितदेशे कार्याजनकत्वात् / अन्यथा नदीस्थजलेन निदाघसमये तीरमप्या क्रियेत / न च जलादिस्तत्र कारणमेव न भवतीति वाच्यम / अन्वयव्यतिरेकविरोधात् / बिम्बस्याप्यन्वयव्यतिरेकसिद्धं हेतुत्वं भज्येत / छायायां शरीरवद् व्यवहितस्यापि हेतुत्वं न विरुद्धमिति चेत् / न, शरीरस्यापि विच्छिन्नदेशच्छायाया अजनकत्वात् / छायायाश्च तमोविशेषत्वान्न तत्रालौकिकं कारणं कल्प्यमिति न तत्र दृष्टान्त इत्यभिप्रेत्याह-प्रतिसूर्यादिकमिति / किं च प्रतिबिम्बस्य द्रव्यान्तरत्वे किं तत् निमित्तकारणेनैव जन्यते, उतोपादानकारणेनापि ? / नाद्यः / भावकार्यस्योपादानं विनोत्पत्त्ययोगादित्यभिप्रत्य द्वितीयं विकल्पयति-किं चेति / स्वातन्त्र्यणेति / उपाधिसंसर्ग विना यत्र कुत्र वर्तमानमित्यर्थः / बिम्वस्य उपाधिना यावद्वयवधानं प्रतिबिम्बस्यापि तावद्वयवधानप्रतीतेरुपाधिसंसृष्टोपादानस्य न तज्जनकत्वमित्याह - नाद्य इति / व्यवधानप्रतीतेभ्रमत्वादुपाधिसंसृष्टमेव प्रतिबिम्बमिति शङ्कते--व्यवहितेति / भेदप्रतीतेरिव व्यवधानप्रतीतेरपि बाधकाभावान्न भ्रमत्वमित्याह--न त्वन्मत इति / बाधकाभावमेव विशदयति--जलोपरीति / / द्वितीये जलाधुपाधिरपि प्रतिबिम्बकारणम्, उत न ? / आद्यमयुक्तमित्याहजलादेरिति / व्यवहितेदेशे कार्यजनकत्वेऽतिप्रसङ्गमाह-अन्यथेति / द्वितीयं दूषयति-न चेति / अन्वयव्यतिरेकवत उपाधेः प्रतिबिम्बाहेतुत्वे बिम्बस्यापि तदापात इत्याह-बिम्बस्यापीति / ननु प्रात: शरीरादेर्व्यवहितदेशवर्तिच्छायाहेतुत्वं दृष्ट, तद्वदुपाध्यादेरपि तत्किन्न स्यादिति शते-लायायामिति / दृष्टान्तासंमत्या दूषयति-न शरीरस्यापीति / आलोकरहितप्रदेशे शरीरमवष्टभ्यैव च्छायाया उत्पत्तेन तस्य व्यवहितारम्भकत्वम् / इतरथा वनस्थदण्डवत्तस्यापि तज्जनकत्वायोगादित्यर्थः / अपि च “शरीरादेःच्छायाविरोध्यालोकापसरणद्वारेणानुकूलतामात्रं, न हेतुत्वम् / ततश्च व्यवहितकार्यहेतुत्वे तन्नोदाहरणमित्यभिप्रेत्याह-किञ्चेति / अन्वयव्यतिरे