SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः किं च दर्पणे छायां पश्यामीत्यनुभव एवास्तु, तथापि 'दर्पणे मुखं पश्यामि' 'ममेदं मुखं' 'ग्रीवास्थमेव मुखमत्र प्रतीयते' अहं पूर्वमुखः' 'मम मुखं तु मदमिमुखं प्रतीयते' इत्यादिमुखत्वसंसर्गतदभेदाद्यनुभवैः स बाध्यते। न च वैपरीत्यापत्तिः / अनेकानुभवप्रामाण्यानुरोधेनैकस्यैव छायाऽनुभवस्याप्रामाण्यात् / न च भवन्मतेऽपि मुखे दर्पणस्थत्वबिम्बाभिमुख्यभेदप्रत्ययानामप्रामाण्यं कल्पनीयमिति वाच्यम् / तथापि मुखत्वव्याप्तधर्मानुभवानामनेकेषामप्रामाण्यप्रसङ्गात् / अस्मन्मते द्विविधप्रत्ययप्रामाण्योपपत्तेश्च / धर्मिकल्पनं चाधिकम् / प्रतिबिम्बस्य द्रव्यान्तरत्वनिरासः अत एव न द्रव्यान्तरमपि। किं च छाया वा द्रव्यान्तरं वा दर्पणस्थं मुखमिति मते अलौकिकं कारणान्तरमपि कल्प्यं, तच्चायुक्तम् / मुखमिति वाऽत्यन्तमुखसदृशतया वा प्रतीयमानस्य सव्येतरविषाणवत्तदतिरिक्तविलक्षण पूर्व प्रतिबिम्बे छायात्वव्यपदेश एव स गौण इत्युक्तम् / इदानीं तदनुभवमङ्गीकृत्य तस्य मुखत्वाद्यनुभवेन बाधितस्य भ्रान्तित्वान्न प्रतिबिम्वस्य च्छायात्वमित्याह-- किं चेति / छायात्वानुभवेनैव मुखत्वाद्यनुभवानां बाधः किं न स्यादित्याशङ्क्यानेकेषामप्रामाण्यकल्पनापेक्षयैकस्यैव तत्कल्पनमिति दूषयति--न च वैपरीत्येति / बिम्बप्रतिबिम्बयोरभेदमतेऽपि वहूनामनुभवानामप्रामाण्यं तुल्यमित्याशक्यास्मन्मते त्रिचतुरज्ञानाप्रामाण्येऽपि तव मते मुखत्वव्याप्यचक्षुःश्रोत्रनासिकारन्तजिह्वालालाकेशश्मश्रुललाटगण्ड वुबुकाधरादिविषयज्ञानशताप्रामाण्यप्रसङ्गाद्वैषम्यमित्याह-न च भवन्मत इत्यादिना / भेदादिज्ञानानामप्रामाण्यमङ्गीकृत्येदमुक्तम्, अस्मन्मते चानिर्वचनीयभेदाद्यङ्गीकारात्तेषामपि तद्वति तत्प्रकारकत्वलक्षणप्रामाण्यमुपपद्यत इत्याह-अस्मन्मत इति / किं च तव मते प्रत्यङ्मुखत्वादिधर्मास्तद्धर्मी चेत्यनेकं कल्पतीयमिति कल्पनागौरवम् / अस्मन्मते तु प्राङ्मुखे एव धर्मिणि प्रत्यङ्नुखत्वादिधर्ममात्रकल्पनाङ्गीकाराल्लाघवमित्यभिप्रेत्याह-- धर्मीति / एवं प्रतिबिम्बस्य छायाविशेषत्वमतं निराकृत्य तस्य द्रव्यान्तरत्वमतमपि दूषयति-अत एवेति / बहुतरप्रत्ययाप्रामाण्यप्रसङ्गात् कल्पनागौरवाच्चेत्यर्थः / न केवलं मिकल्पनागौरवं तत्कारणं चाधिकं कल्पनीयमित्याह--किं चेति / कार्यानुरीधेन तत्कल्पनमित्याशङ्क्याह-तच्चेति / द्रव्यान्तरत्वे दृष्टान्तितस्य तमसः प्रतिबिम्बाद्वैषम्यमाह-अन्धकारश्चेति / रूपवत्त्वे सत्यालोकनिरपेक्षचक्षुग्राह्यत्वात्तमसस्तादृशावयवा मूलाज्ञानं वा तत्कारणत्वेन कल्प्यमित्यर्थः / सौराद्यालोकस्यैवाभ्रविशेषोपाधौ परिवेषादिरूपेण भानात्
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy