SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 82 सटीकाद्वैतदीपिकायाम् एवं प्रचरालोकवति प्रदेशे प्रत्यालोकं प्रतिबिम्बमनुभूयते / छाया चाऽऽलोकनिवा। छायाविधुरस्यादित्यादेरपि प्रतिबिम्बदर्शनाच्च। न च प्रतिबिम्बमुखस्य च्छायाविशेषत्वान्नैतत्सर्वं विरुद्धमिति वाच्यम् / अत्यन्तप्रसिद्धच्छायाविलक्षणे तस्मिन् कथमपि च्छायात्वानुभवाभावेन तद्विशेषत्वस्य कल्पयितुमशक्यत्वात् / न चैवं तत्र प्रतिबिम्बे च्छायाशब्दप्रयोगः कथमिति वाच्यम् / प्रसिद्धच्छायायामिवाऽऽरोपितभेदाश्रयप्रतिबिम्बेऽपि बिम्बचलनाधीनचलनत्वदर्शनेन तस्य गौणत्वात् / उक्तवैधर्येण भेदज्ञाने सत्यभेदव्यवहारस्य गौणत्वात् / 'दर्पणे मुखं पश्यामि' 'मम मुखं सुन्दरतरं' 'तव मुखं विपरीतम्' इति दर्पणे प्रतीयमानमुखे मुखत्वसंसर्गतदभेदयोरनुभवाच्च / न च च्छायायामिवैतदौपचारिक किं न स्यादिति वाच्यम् / तद्वदत्र मुखत्वसंसर्गाद्यनुभवे बाधकाभावात् / न च भेदप्रत्ययादिरेव बाधक इति वाच्यम् / एवं तहि दर्पणस्थं मुखान्तरमेव कल्प्यतामुभयप्रत्ययप्रामाण्याय। छायायां कल्प्यस्यालौकिककारणस्य तत्रापि कल्पयितुं शक्यत्वात न च तदपीति वक्ष्यते / प्रत्यालोकमिति / आलोकाभिमुखमित्यर्थः। किं च चन्द्रसूर्य्याद्यालोकनिवारकवृक्षादिप्रतियोगिकत्वात् छायायाश्चन्द्रादेशचालोकानिवारकत्वात्तच्छायाया असत्त्वेऽपि जलादौ तत्प्रतिबिम्बदर्शनान्न तस्य च्छायात्वमित्याह--छायाविधुरस्येति / छायाविशेषत्वादेव वृक्षादितो वैलक्षण्यमित्याशक्य छायात्वव्यापकानां श्यामत्वालोकविरोधित्वादीनामभावान्नैव च्छायात्वं, कुतस्तद्विशेषत्वमित्याह--न च प्रतिबिम्बेत्यादिना / कथं तर्हि 'दर्पणे मुखच्छाया' इति क्वचिद् व्यपदेश इत्याशक्य पितृसदृशे पुत्रे पितृच्छायात्वव्यपदेशवद्गौण इत्याह--न चैवमित्यादिना / ननु मुख्यत्वे संभवति गौणत्वमन्याय्यमित्याशक्य प्रसिद्धच्छायातो भेदस्य स्पष्टमनुभवान्न मुख्यत्वसंभव इत्याह - उक्तेति / किं च छायात्वाभावव्याप्त मुखत्वादेरेव प्रतिविम्वेऽनुभवान्न तस्य च्छायात्वमित्याह-दर्पण इति / यदुक्त स्वच्छायाशिरसि स्वशिरोव्यवहारवत् स्वपादाकृतौ पादव्यवहारवच्च 'दर्पणे मम मुखम्' इति व्यपदेशो गौण इति, तद् दूषयति--न चेति / ननु 'इमे चैत्रतत्प्रतिबिम्बे' इति भेदानुभव एवं प्रतिबिम्बस्य मुखत्वादिमत्त्वे बाधक इत्यत आह-न च भेदेति / प्रतिबिम्वस्य बिम्बभेदानुभवो न तस्य मुखत्वसंसर्गानुभवबाधकः / तस्य मुखान्तरत्वेऽपि तदुपपत्तेः / तथा च न त्वदभिमतछायात्वमित्यभिप्रेत्याह-एवं तीति / दर्पणे मुखकारणाभावात्तत्र मुखान्तरमसम्भवीत्याशक्याह--छायायामिति / त्वदभिमतच्छायाविशेष इत्यर्थः / अस्तु तर्हि तन्मुखान्तरं, तावताऽपि बिम्वप्रतिबिम्बयोरभेदासिद्धिरित्याशङ्क्याह-न चेति / /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy