________________ द्वितीयः परिच्छेदः कस्तूरीप्रतिबिम्बे गन्धस्य गुडादिप्रतिबिम्बे रसस्य चानुभवप्रसङ्गात् / न च प्रतिबिम्बे प्रत्यङ्मुखत्वादिभ्रान्तिः प्रतिबिम्बं बिम्बाभिमुखं नेति कदाप्यननुभवात् // एतेन "दर्पणाभिहता दृष्टिः परावृत्त्य स्वमाननम् / व्याप्नुवन्त्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम्" इति निरस्तम् / परावृत्य स्वमुखस्यैव ग्रहणे पावस्थमुखप्रतीत्ययोगात् / अस्मिन्पक्षे नेत्राभिघातमात्रोपक्षीणत्वेन दर्पणक्य इव तद्भेदेऽप्येकमुखप्रतीत्यापत्तेश्च / अस्याः प्रक्रियाया ब्रह्मप्रतिबिम्बे जीवेऽसंभवात् / जलस्य नेत्राभिघातकत्वे जलान्तर्गतस्वर्णादेरग्रहप्रसङ्गाच्चेति / नवीनाक्षेपनिरासः उच्यते / न तावदियं मुखच्छाया। प्रसिद्धच्छायाया अत्यन्तविलक्षणत्वात् / तथाहि-दर्पणे प्रतीयमानं मुखं पुरुषाभिमुखं पुरुषमीक्षमाणं स्पष्टतरदन्तरसनाद्यवयवविशेषं च दृश्यते। न च तमोविशेषच्छायाया एतदस्ति / एवं रजतादर्शादौ प्रतिबिम्बमुखमश्याममनुश्रूयते / प्रसिद्धा तु च्छाया नियमेन श्यामैव // / तत्प्रतिभासस्य बाधकाभावान्न भ्रान्तित्वमित्याह-न चेति / प्रतिबिम्बे प्रत्यङ्मुखत्वादि- . प्रतं तेर्बाधकाभावाद्वातिककारोक्तिरन्ययुत्तेत्याह--एतेनेति / स्वमाननं व्याप्नुवन्तीत्यत्र स्वमिति विशेषणमन्ययोगव्यवच्छेदार्थमिति मत्वा दूषयति - परावृत्त्येति / दर्पणाभिघातेन परावृत्तदृष्टया ग्रीवास्थ नुखमेव व्यत्यस्ततया भातीति पक्षे वहूनां दर्पणानां सन्निधानेऽपि तेषामेकस्यैव दृष्टिप्रतिहतिमात्रहेतुत्वादेकमेव प्रतिबिम्बमुखं भायादित्याह-अस्मिन्पक्ष इति / उपाधिप्रतिहतदृष्टयैव प्रतिबिम्बभ्रमे चक्षुरविषये ब्रह्मणि जीवभावेन प्रतिबिम्वभ्रमो न स्यादित्याह-अस्या इति / दर्पणवदेव जलस्यापि चक्षुःप्रतिघातकत्वेन चक्षुषस्तदधस्तनद्रव्यसंयोगाभावात्तदवभासो न स्यादित्याह-जलस्येति / ग्रीवास्थमेव मुखं दर्पणाधुपाध्यभिघातरूपदोषवता चक्षुषा व्यत्यस्ततया गृह्यमाणं तत्प्रतिबिम्बमिति वक्तुं छायाविशेषः प्रतिविम्ब मति मतं प्रथमं दूषयति-न तावदिति / तव मते यथा च्छायायाः पृथिव्यादिविलक्षणत्वात्ततो भेदः, एवं छायातोऽपि विलक्षणत्वात्प्रतिबिम्बंन च्छायेत्यर्थः। वैलक्षण्यमेव दर्शयति-तथा होति / प्रतिबिम्बस्य च्छायात्वे नियमेन श्यामता स्यात्, न च सास्तीत्याह--एवमिति / किं च प्रौढालोकसंसृष्टाऽऽदर्शतले च्छायाया असंभवात्तत्र प्रतीयमानं प्रतिबिम्बं ततोऽन्यदित्याह--एवमिति /