________________ 80 सटीकाद्वैतदीपिकायाम् नाधीनचलनत्वात् क्रियासाम्यं छायायामकान्त्यात् / नापि बिम्बकारणमात्रजन्यत्वं बिम्बादर्वाचीने प्रतिबिम्बे तदसिद्धः। पृथग्दृष्टकार्यानुरोधेन परिवेषेन्द्रचापच्छायाप्रतिसूर्यादाविव कारणस्य कल्प्यत्वात् / प्रतिबिम्बमपि च्छायाविशेषो द्रव्यान्तरं वा तमोवत्। एतेन दर्पणं मुखव्यक्तिशून्यं तत्कारणशून्यत्वादित्यनुमानं प्रत्युक्तम् / “नोपरक्तं न वारिस्थम्" इति स्मार्त्तव्यवहारस्तु “चित्रे सिंह' इति लोकव्यवहारवत् यथा जतुमयी योषिद् इत्यादिवचनवच्च गौण इति न किंचिदभेदे मानम् / तदभेदस्तु प्रत्यक्षेण चलत्वाचलत्वन्यूनाधिकपरिमाणप्रत्यङ्मुखत्वत्वग्ग्राह्यत्वाग्राह्यत्वलिङ्गश्च सिद्धः। अभेदे बिम्बकारणमात्रजन्यत्वे तयोः पौर्वापर्यायोगात् तुरीयोऽपि हेतुरसिद्ध इत्याह-नापीति / प्रतिबिम्बस्य कारणान्तरानिरूपणाद् बिम्बकारणमात्रजन्यत्वम् / तथा च पौर्वापर्यावभासो भ्रम इत्याशङ्क्याह--पृथग्दृष्टेति / / ननु बिम्बातिरिक्तः प्रतिबिम्बः किं द्रव्याद्यन्यतमस्तदतिरिक्तो वा ? नाद्यः / तस्य पृथिव्यादित्रितयान्तर्भावे गन्धगुरुत्वद्रवत्वोष्णस्पर्शाद्युपलम्भप्रसङ्गात् / वाय्वादिद्रव्यात्मकत्वे चाक्षुषत्वायोगात् / रूपादिमत्त्वेन गुणादावप्यन्तर्भावायोगात् / न द्वितीयः / द्रव्यादिषट्कातिरिक्तभावपदार्थाप्रसिद्धेः, इत्याशङ्क्याह--प्रतिबिम्बमिति / प्रसिद्धच्छायायां शुबलरूपादेरभावाच्छायाविशेष इत्युक्तम् / तथा च च्छायाया दशमद्रव्यत्वादिदमपि दशमं द्रव्यमित्यर्थः / तदतिरिक्तं वा द्रव्यान्तरमिति पक्षान्तरमाह--द्रव्यान्तरं वेति / प्रसिद्धद्रव्येष्वनन्तभूतस्य द्रव्यान्तरत्वे दृष्टान्तमाह-तमोवदिति / मुखप्रतिबिम्बस्यामुखत्वाङ्गीकारादेव दर्पणे मुखाभावसाधनं सिद्धसाधनत्वेन दुष्टमित्याह-एतेनेति / नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन / नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् // - इति स्मृतौ वारिस्थमादित्यं नेक्षेतेति वारिस्थप्रतिबिम्बस्याऽऽदित्यत्वेनानूदितत्वात्तद्भेदः सिद्ध इति तृतीयं दूषयति-नोपरक्तमिति / गौण इति / ज्ञातभेदयोरभेदव्यपदेशत्वादित्यर्थः। भेदेऽपि न मानमित्याशक्य 'इमे चैत्रतत्प्रतिबिम्बे' इति प्रत्यक्षेण तावत्सिद्धः इत्याह--तभेदस्त्विति / "बिम्बप्रतिबिम्बे परस्परं भिन्ने विरुद्धधर्माश्रयत्वाददहनतुहिनवत्" इत्यनुमानेनापि तद्भेदः सिद्धइत्यभिप्रेत्य तयोविरुद्धधर्मानाह-चलत्वेति / त्वगग्राह्यत्वेति / बिम्बस्य त्वगिन्द्रियग्राह्यत्वमितरस्य तदग्राह्यत्वमित्यर्थः / दर्पणस्थप्रतिबिम्बस्य बिम्बादभेदे बाधकान्तरमाह-अभेद इति / ननु स्वतःप्राङ्मुखत्वादिरूपे मुखे प्रत्यङ्मुखत्वादेः शङ्ख पीतत्ववद् भ्रान्त्या प्रतिभासान्न बिरुद्धधर्माश्रयत्वमित्याशडक्य