________________ द्वितीयः परिच्छेदः भावाच्च / अत एव बालानां प्रतिबिम्बे बालान्तरभ्रमः / क्वचित् मममुखमिति व्यपदेशः स्वच्छायाशिरसि स्वशिरोव्यवहारवत् मार्गविन्यस्तपादाकृतौ स्वपादव्यवहारवच्च गौणः। भेदज्ञाने सत्यभेदव्यवहारस्य गौणत्वनियमात् / किं च यद्यैक्यं भासते तयज्ञानस्य निवृत्तत्वान्न भेदभ्रमः स्यात, न च तत्रोपाध्यभावसहकृतादेव ज्ञानादज्ञाननिवृत्तिरिति वाच्यम् / ज्ञानस्य स्वप्रागभावनिवृत्ताविवाज्ञाननिवृत्तावप्यनपेक्षत्वात् / अन्यथा तत्रापि 'न जानामि' इत्यनुभवप्रसङ्गात् / न च मूलाविद्याकार्यः प्रतिबिम्बभ्रम इति वाच्यम् / व्यावहारिकत्वप्रसङ्गात्। न च सोपाधिकभ्रमे नाज्ञानहेतुः, न वा ज्ञानमज्ञाननिवर्तक, किन्तूपाधिरेव कारणं तदभावश्च निवर्तकः इति वाच्यम् / भ्रान्तेरनुरूपमज्ञानमेव हेतुः असत्यं च न ज्ञानातिरिक्तनिवर्त्यमिति त्वदभ्युपगमविरोधात् / नाप्यनुमानं तत्र मानं; तत्र न तावत् अत्यन्तसदृशत्वं हेतुः। सव्येतरशृङ्गादौ व्यभिचारात, सादृश्यस्य भेदव्याप्तत्वेन विरोधाच्च / नापि वैधाभावो लिङ्गम् असिद्धः। नापि बिम्बचलअप्रतिबद्धज्ञानस्यैवाज्ञाननिवर्तकत्वाद् बिम्बप्रतिबिम्बाभेदज्ञानस्य चोपाधिना प्रतिबद्धत्वान्न भेदभ्रममूलाज्ञाननिवर्तकतेत्याशक्य ज्ञानस्य स्वप्रागभावनिवृत्ताविवाज्ञाननिवृत्तावपि निवातिरिक्तानपेक्षत्वादुपाध्यभावस्य तत्र सहकारित्वमेवायुक्तमित्याह-न च तत्रेत्यादिना / ननु कार्यमात्र प्रतिबन्धकाभावस्यानुकूलत्वात्तदभावे कथमज्ञाननिवृत्तिलक्षणकार्यमित्याशक्य तहि तदनिवृत्तौ मुखाभेदं न जानामीत्यनुभवः स्यात् / अज्ञानस्य साक्षिमात्रभास्यत्वात्; इत्याह-अन्यथेति / ननु बिम्बप्रतिबिम्बभावेन भ्रमो न मुखाभेदाज्ञानजन्यः, येन तन्निवृत्त्या निवर्तेत; किं तु वियदाधुपादानमूलाज्ञानजन्यः तस्य च मुखाभेदज्ञानेनानिवृत्तत्वात्तद्भेदभ्रमानुवृत्तिरित्याशक्य तथात्वे घटादिभेदवत् बिम्बप्रतिबिम्बभेदस्यापि व्यावहारिकसत्यताप्रसङ्ग इत्याह-न च मूलेति / . निरुपाधिकभ्रम एवाज्ञानजन्यः सोपाधिकभ्रमस्तुदर्पणाधुपाधिनैव जन्यो यावदुपाध्यनुवर्तत इत्याशयापसिद्धान्तप्रसङ्गेन दूषयति-न च सोपाधि केत्यादिना / द्वितीयमपवदति--नापीति / तत्र हेतोरनिरूपणादिति शेषः। किं प्रतिबिम्बस्य बिम्बाभेदेऽत्यन्तसादृश्यं हेतुः, वैवाभावो वा, बिम्बचलनाधीनचलनवत्त्वं वा, बिम्बकारणमात्रजन्यत्वं वा ? / आद्यं व्यभिचारेण दूषयति-सव्येतरेति / साध्यविपर्ययव्याप्तत्वाद्विरुद्धश्चायं हेतुरित्याह-सादृश्यस्येति / श्यामत्वावदातत्वप्रत्यङ्मुखत्वादिविरुद्धधर्मवत्त्वाद् बिम्बप्रतिबिम्बयोद्वितीयो हेतुरसिद्ध इत्याह-नापीति / बिम्बे चलति भूतलादौ तच्छायाया अपि चलनवत्त्वात्तत्र व्यभिचारेण तृतीयं दूषयति-नापि बिम्बेति / प्रतिबिम्बस्य