________________ 78 सटीकाद्वैतदीपिकायाम् बिम्बप्रतिबिम्बभावे पूर्वपक्षः ___ अत्राह नवीनः यदि जीवो ब्रह्मणः प्रतिबिम्ब इत्युच्यते, तहि तात्त्विक एवैतयोर्भेदः स्यात्। अभेदे मानाभावात् / तथा हि-तत्र न तावत् प्रत्यक्षं मानम् / 'इमे चैत्र-तच्छाये भिन्ने' इतिवद् ‘इमे चैत्रतत्प्रतिबिम्बे भिन्ने' इति पावस्थेन ग्रहणात्, स्वेनापि स्वकर-तत्प्रतिबिम्बे भिन्ने इति ग्रहणात् / ___ ननु यथा बहिः स्थितश्चैत्रो यत्स्वलक्षणः प्रतिपन्नस्तत्स्वलक्षण एव वेश्मान्तःस्थो भाति, तथा यत्स्वलक्षणं ग्रीवास्थं मुखं तत्स्वलक्षणमेव दर्पणस्थमपि भातीति न तद्वस्त्वन्तरम / तस्मादेकमेकदेशस्थं मुखं भिन्न भिन्न देशस्थमिव भातीति चेत् न। किमनेन सव्येतरहस्तयोरिवात्यन्तसादृश्यधीरुपन्यस्ता प्रत्यभिज्ञा वा ? / आये न तयोरैक्यसिद्धिः। अन्त्येऽसिद्धिः। किञ्चित्स्वच्छताम्रादौ प्रतीते मुखच्छायामात्रे मुखसंस्थानविशेषाप्रतीत्या प्रत्यभिज्ञाऽभावस्य स्फुटत्वात् / स्वनेत्रगोलकादौ स्वस्याभिज्ञाऽभावेन प्रत्यभिज्ञायोगाच्च / सूर्यपार्श्वे प्रतिसूर्य इव 'दर्पणे मुखच्छाया' इत्यनुभवेन 'दर्पणे मम मुखं लग्नम्' इतिप्रतीत्य बिम्बप्रतिबिम्बयोरभेदे किं प्रत्यक्ष मानमुतानुमानं किं वा स्मृतिः ? / नाद्यः प्रत्यक्षेण तद्भेदस्यैव ग्रहादिति सदृष्टान्तमाह-तत्र न तावदिति / पार्श्वस्थेन भेदेन ग्रहणेऽपि चैत्रेण तयोरभेद एव गृह्यत इत्याशङ्कयाह-स्वेनापीति / ननु गृहाब हश्चैत्रो यद्रूपो दृष्टस्तद्रूप एव गृहमध्ये दृष्ट इति यथा तस्य बहिर्दष्टादभेदः, एवं ग्रीवास्थमुखं यत्स्वरूपं दृष्टं तत्स्वरूपमेव दर्पणे दृश्यत इति यत्स्वलक्षणं ग्रीवास्थं मुखं तत्स्वलक्षणं दर्पणस्थं भाति तत्त्स्वरूपमेव दर्पणेऽपि दृश्यत इति तत्ततो न भिद्यते। तथा च तत्र भेदादिप्रतिभासो भ्रम इति टीकाकारोक्तमनुवदति-नन्वित्यादिना / भिन्नमित्यत्रापि इवशब्दो द्रष्टव्यः। यत्स्वलक्षणं ग्रीवास्थं मखं तत्स्वलक्षणं दर्पणस्थं भातीत्यनेन किं बिम्बप्रतिबिम्बयोः सादृश्यं भातीत्युच्यते, उताभेद इति विकल्पयति--किमनेनेति / आये सादृश्यस्य भेदसापेक्षत्वान्नाभेदसिद्धिरित्याह-आद्य इति / द्वितीये क्वचिन्मुखप्रतिबिम्बवत्वेन मुखाकारप्रतीत्यभावात्प्रत्यभिज्ञैव नेत्याह-अन्त्ये इति / क्वचिच्च विशेष्येन्द्रियसंन्निकर्षाभावेनाभिज्ञाऽयोगात्प्रत्यभिज्ञाऽभाव इत्याहस्वनेत्रेति / यत्रापि प्रतिबिम्बे नुखाकारो दृश्यते तत्रापि न प्रत्यभिज्ञेति सदृष्टान्तमाह-. सूर्येति / प्रत्यभिज्ञाऽभावादेव बालानां स्वप्रतिबिम्बे चेतनान्तरत्वभ्रम इत्याह-अत एवेति / कथं तहि दर्पणे मम मुखमित्यादिव्यपदेश इत्याशक्य ज्ञातभेदयोरभेदव्यपदेशत्वाद् गौण एवेति सदृष्टान्तमाह-क्वचिदिति / किं च बिम्बप्रतिबिम्बयोरभेदप्रतिभासे त्वदभिमतभेदभ्रम एव न स्यात्तन्मूलाज्ञानस्य तेन नाशादित्याह-किं च यदीति /