________________ 106 सटीकाद्वैतदीपिकायाम् केचित्तु साक्षात्त्वदुक्तार्थविषयं प्रमाणमपि नास्तीत्यर्थः / न चास्यैव विशिष्टविषयज्ञानस्य प्रमाणत्वात्तद्विशेषणतयाऽर्थस्यापि प्रमाणेनाधिगमात्स्ववचनव्याघात इति वाच्यम् / अस्य साक्षात्तद्विषयत्वाभावात् / साक्षात्प्रमाणविषयत्वस्य च सत्त्वप्रयोजकत्वादित्याहुः। एतेन भावरूपाज्ञानमेवाज्ञानशब्देन समुदायशक्तयाऽभिधीयते इति तदेव न जनामीत्यनुभवगोचर इति परास्तम् / वृत्तिज्ञाननिवर्त्यस्याज्ञानस्य तद्विरुद्धत्वेन क्लप्तावयवशक्त्यैवोपपत्तौ समुदायशक्तिकल्पनागौरवात् / किं चाज्ञानं वृत्तिविषयो न चेत्तत्रानुमानं शब्दप्रयोगोपि न स्यात् / वृत्तिग्राह्यं चेत्तदवच्छेदकविषयस्यापि तग्राह्यत्वे कथं तत्राज्ञानम् / न च परोक्षवृति ज्ञानविरोधिनीति वाच्यम् / परोक्षतोपि ज्ञाने न जानामीत्यनुभवाभावात् / अज्ञानानिवृत्ती परोक्षे व्यवहारायोगाच्च / परोक्षवृत्त्या परोक्षभ्रमानिवृत्तिप्रसङ्गाच्च। शास्त्रश्रवणेन धर्माद्यज्ञानं निवृत्तमित्यनुभवाच्च / शेषणतयाऽर्थविषयत्वेन साक्षात्तद्विषयकत्वाभावान्न विरोध इत्याह-न चेत्यादिना / इदं रजतं जानामीति ज्ञानविशेषणतया प्रमाणगोचरस्यापि रजतस्य सत्वाभावात्साक्षात्प्रमाणविषयत्वमेवार्थसत्त्वप्रयोजकं तथा च तदभाव एव तत्संशयादिप्रयोजकाज्ञानमित्यभिप्रेत्याह--साक्षादिति / ____नन्वज्ञानशब्दस्य भावरूपाज्ञाने रूढत्वात्तदर्थस्यैव न जानामीत्यनुभवगोचरत्वान्न ज्ञानाभावस्तद्गोचर इत्याशङ्क्याह--एतेनेति / एतच्छब्दार्थमाह--वृत्तीति / क्लतयोगस्य कल्प्यरूढिबाधकत्वाद्योगस्य चाभावरूपाज्ञानेऽपि सत्त्वान्नोक्तदोष इत्यर्थः / एवमभावरूपाज्ञानस्य प्रमाणज्ञानादिनाऽविरोधमुपपाद्य भावरूपाज्ञाने तद्विरोवमाह--किं चेति / किमज्ञानं वृत्तेविषयो न वा ? / अन्त्ये दोषमाह-अनुमानमिति / आद्यमनुवदति--वृत्तीति तत्रापि किमज्ञानविषयवस्त्वपि अज्ञानविषयवृत्तेविषयो न वा?। आद्ये स्वसमानविषयप्रमाणज्ञानेन विरोधादज्ञानस्य न तद्ग्राह्यतेत्याह--तदवच्छेदकेति / अज्ञानविषयवृत्तेरज्ञानविषयवस्तुविषयकत्वेऽपि परोक्षत्वान्नाज्ञानविरोधिनी सेति चेत्, न परोक्षतो ज्ञातेऽपि वन्ह्यादावज्ञानानुभवाभावात्परोक्षज्ञानस्यापि तद्विरोधित्वादित्याह--न च परोक्षेति / परोक्षवृत्त्या तद्विषयाज्ञानानिवृत्तावज्ञाते व्यवहाराभावेन ततस्तद्वयवहारोपि न स्यादित्याह-अज्ञानेति / किं च परोक्षप्रमाणज्ञानेन परोक्षभ्रमो निवर्तते इति तवापि संमतं तदनुपपन्नम् / अज्ञानानिवृत्तौ तन्मूलकभ्रमनिवृत्त्ययोगादित्याह--परोक्षेति / परोक्षज्ञानादज्ञानं न निवर्त्तत इत्येनदनुभवविरुद्धं चेत्याह--शास्त्रेति / द्वितीयमनुवदति-अज्ञानेति /