________________ सटीकाद्वैतदीपिकायाम् / मा भाषिष्ठाः घटमहं न जानाम्यहमज्ञ इत्याद्यनुभवसिद्धत्वात्तस्य / विभागप्रक्रियायां चैतन्निपुणतरमुपपादयिष्यामः / न च वृत्तः त निवृत्तावनुपयोगः। व्यासङ्गदशायां सत्यपि चक्षुषः सम्प्रयोगे सति च नित्यानुभवे साक्षिण्यन्तःकरणवृत्तिव्यतिरेकेण घटाद्यज्ञाननिवृत्यदर्शनात् / तस्यां च सत्यां तत्रैव तदर्शनात् / / नन्वनुभवातिरिक्तवृत्तेः स्फुटतरप्रत्यक्षावेद्यत्वेन तस्या नान्वयादिज्ञानं सम्भवति / कार्यानुरोधेन तु कारणकल्पनायां मनस इन्द्रियसम्बन्ध एव कल्प्यताम् / न च व्यधिकरणः सोऽज्ञाननिवर्तको न भवतीति वाच्यम् / समनस्केन्द्रियसन्निकर्षस्यैवार्थगतस्याज्ञाननिवर्तकत्वात् / न च वृत्तिनिराकरणे समनस्केन्द्रियः सन्निकर्ष एव न सिध्यति तस्य वृत्येककल्प्यत्वादिति वाच्यम् / अविद्यानिवृत्यैव तत्कल्पनासम्भवात् / न च ज्ञानैकनिवर्त्यस्याज्ञानस्य कथमिन्द्रियसंयोगनिवय॑त्वमिति वाच्यम् / तस्य वृत्तिनिवर्त्यत्वपक्षेऽपि तुल्यत्वात् / भवन्मते चैतन्यस्यैव ज्ञानत्वात् / न च चैतन्यमेवाज्ञाननिवर्तकं वृत्तिस्तत्र सहकारिणीति वाच्यम् / सिद्धिरित्याशङ्कयाह - विभागप्रक्रियायामिति / जीवपरभेदनिरूपणपरे द्वितीयपरिच्छेद इत्यर्थः। अविद्यायाः प्रकाशनिवर्त्यत्वावृत्तेरनुपयोग इत्याशङ्कय तस्या अपि तत्रान्वयव्यतिरेकबलात्सहकारित्वमस्तीत्याह-न च वृत्तेरिति / नन्वर्थप्रकाशाद्भेदेन वृत्तः स्फुटतरप्रत्यक्षागोचरत्वादन्यथा तत्र वादि विप्रतिपत्त्यभावप्रसङ्गात्तस्या विशिष्य नान्वयादिग्रह इति चोदयति-नन्वनुभवेति / ननु व्यासङ्गदशायामविद्यानिवृत्तिलक्षणकार्याभावः कारणाभावप्रयुक्तो वाच्यः / चक्षुःसंयोगादेश्च सत्त्वात्तव्यतिरिक्तकारणाभावो वृत्त्यभाव एव। तथा च वृत्तेः कारणत्वसिद्धिरिति नेत्याह-कार्यानुरोधेनेति / नन्विन्द्रियमनःसंयोगस्य तदुभयनिष्ठत्वात्ततः कथं विषयचैतन्यस्थाविद्यानिवृत्तिरित्यत आह--न च व्यधिकरण इति / ननु समनस्केन्द्रियसम्प्रयोगस्याप्रत्यक्षतया तत्कल्पिका वृत्तिरभ्युपेयेति नेत्याह-न च वृत्तिनिराकरण इति / अज्ञानमिति ज्ञानविरोधित्वेन प्रतीयमानस्य कथं ज्ञानान्यसम्प्रयोगनिवर्त्यत्व मित्याशय तर्हि वृत्तिनिवर्त्यत्वमप्यनुपपन्नमित्याह-न च ज्ञानैकेति / ज्ञान• -