________________ 7 प्रथमः परिच्छेदः इन्द्रियसम्प्रयोगेऽपि तस्य तुल्यत्वात् / ज्ञानेनाज्ञानं निवृत्त. मित्यनुभवस्य मतद्रयेऽपि तुल्यत्वात् // - एवमन्यदपि वृत्तिकार्य तया विनैव निर्वाह्यम् / न च जानामीत्यनुभवसिद्धा वृत्तिन प्रत्याख्यानमहतीति वाच्यम् / असत्युपयोगे जानामोत्यस्य स्वप्रकाशानुभवगोचरव्यवहारमात्रत्वादिति चेत् / वृो आवश्यकत्वम् उच्यते, अनुगतकार्ये ह्यानुगतमेव कारणमन्वयव्यतिरेकाभ्यां निरूप्यते / तचानुगतरूपं चक्षुःसम्प्रयोगादिषु न सम्भवति प्रत्येकं तेषामननुगतत्वात् / न चेन्द्रियसंयोगत्वमनुगतम् / "तस्य व्यासगाकालीनेन्द्रियसम्प्रयोगेऽपि गतत्वात् / अतिप्रसक्तस्य कारणतानवच्छेदकत्वात् / न च समनस्केन्द्रियसम्प्रयोग स्यैवाज्ञाननिवृत्तौ कारणत्वावृत्तेरप्युपकरणत्वान्न ज्ञानत्वविरोध इत्याशय सम्प्रयोगस्याप्युपकारकत्वात्तुल्यमित्याह-न च चैतन्यमिति / वृत्तेरप्यज्ञानत्वादनुभवविरोधस्तवापि सम इत्याह-ज्ञानेनाज्ञानमिति / / ... ननु परोक्षे विषये स्फुरणाभावात्तद्व्यवहारार्थ वृत्तिरभ्युपेयेति नेत्याहएवमन्यदपीति / वृत्तिमात्रस्याप्रकाशत्वेन व्यवहारस्य ततो ऽसिद्धेस्तव्यतिरिक्तश्चित्प्रकाशो ऽपि वाच्यः / तथा च वृत्तिरूपोऽनुगतधर्मो मुधेति भावः / ननु प्रयोजनशून्यस्यापि वस्तुनो दर्शनादनुभवसिद्धा वृत्ति पह्नवमहतीत्युक्त मिति तत्राह-न च जानामीति / काष्ठलाष्टादेर पि यं कंचन जन्तुं प्रति पुरुषार्थपर्यवसायित्वात्सर्वथाप्रयोजनशून्यस्यानुभव एव न सम्भवतीत्यर्थः / .. अविद्यानिवृत्तित्त्वरूपानुगतधर्मावच्छिन्ने कार्य ऽनुगतधर्मावच्छिन्नं कारणं वक्तव्यमन्यथा कार्यकारणभावस्य दुर्घहत्वात् / तच्च वृत्तिव्यतिरेकेण न सम्भवतीति सिद्धान्तयति--उच्यत इति / ननु चक्षुरादि सम्प्रयोगे इन्द्रियसंयोगत्वमनुगतरूपमित्याशङ्कय तदवच्छिन्ने सत्यपि कार्यादर्शनान्न तस्य कारणतावच्छेदकत्वमित्याह-न चेन्द्रियेति / तर्हि समनस्केन्द्रियसम्प्रयोगत्वमव्यभिचारात्कारणता