________________ सटीकाद्वैतदीपिकायाम् स्वमनुगतम् / तथा मनसःसहकारिणस्तत्कार्यनिरूपितकारण. तानवछेदकत्वात् असहकार्येव तन्त्रमन इति चेत्। न, व्यासनादी स्वतन्त्रान्वयव्यतिरेकवतस्तस्य कारणत्वनियमात् / अन्यथा दण्डादिसहितमृदादिः कारणमित्यसहकारि विश्वं स्यात् // व्यासङ्गवशायां मनोव्यापाराभावात्कार्मबिरहोपपादनखण्डने अस्तु तर्हि वाह्यन्द्रियसम्प्रयोगत्वेनेन्द्रियसम्प्रयोगस्तत्र कारणं मनसः सहकारिणो विरहाव्यासङ्गो ऽविद्यानिवृत्तिविरह इति चेत् न, आत्माऽविद्यानिवृत्तिस्थले तदसम्भवात् / अथ यथा वायप्रत्यक्षे मनस इन्द्रियसहकारित्व-मात्मप्रत्यक्षे तु तदेव हेतुः एवं वाह्याविणनिवृत्तौ मनो बहि वच्छे मित्याशङ्कय किं मनसोऽपि तत्र सहकारित्वमुत न ? आये तस्येतरकारणतावच्छेदकमध्येऽनुप्रवेशो न युक्त इत्याह-न च समनस्केति / तथेति / अवच्छेदकमित्यर्थः / अनवच्छेदकत्वादिति / अन्यथा दण्डत्वादिवत्तत्राकारणत्वापातादित्यर्थः / द्वितीयपक्षं शङ्कते-असहकारीति / इन्द्रियसंयोगे सत्यपि तव्यतिरेके कार्यव्यतिरेकदर्शनात्तस्य सहकारित्वमावश्यकमित्याह-न व्यासङ्गति / सहकारिणोऽप्यवच्छेदकत्वे कार्यमात्रमेककारणकं स्यादित्याह-अन्यथेति // नन्वविद्यानिवृत्तिकार्ये वाह्येन्द्रियसंयोगस्तत्त्वेन कारणं मनश्च मनस्त्वेन कारणम् / तथा च व्यासङ्गदशायां मनोव्यापाराभावादेव कार्यविरह इति चोदयति-अस्तु तीति / तत्र किमविद्यानिवृत्तिमात्रे वाह्येन्द्रियसम्प्रयोगः कारणमुत वाद्याविकानिवृत्तावेव ! आथे व्यतिरेकव्यभिचारमाह--न आत्माविद्येति / द्वितीयकल्प आत्माविद्यानिवृत्तेराकस्मिकत्वशङ्कादासाय हेतुं प्रदर्शयन् तं पक्षमनुदति-अथ यथेति / एवं कचित् वाह्येन्द्रियसम्प्रयोगः कचिन् मन इत्यननुगमदोषस्तदवस्थ इत्याहन, अनुगतेति / नन्विन्द्रियसम्प्रयोगत्वेनाविद्यानिवृत्तौ मनस इन्द्रियसम्प्रयोगो ऽपि सहकारीति चेन्न / मनसः प्रमातृत्वेनानिन्द्रियत्वादिति भावः / किम्व शरीरसंयुक्त ज्ञानकरणमतीन्द्रियमिन्द्रियमिति प्राचाम्मते स्मृत्यजनकज्ञानकरणमनः संयोगाश्रयत्वमिन्द्रियत्व मित्यर्वाचीनमते च जन्यज्ञानघटितमेवेन्द्रियत्वमिति तद. नभ्यपगम इन्द्रियत्वमेव न सिद्धयदित्याह--किञ्च जन्येति / नन्विन्द्रियत्वस्य जातिस्वान्न जन्यज्ञानापेक्षेति चेत् / न, तेजस्त्वादिना सार्यात् / न च तेजस्त्वादिव्या