________________ 81 प्रथमः परिच्छेदः रिन्द्रियसहकारि, आत्माविद्यानिवृत्तौ तु तदेव हेतुरिति चेत्, न, अनुगतहेतौ सम्भवत्यननुगतस्याहेतुत्वात् / किञ्च जन्यज्ञानानभ्युपगमे इन्द्रियत्वमेव दुर्निरूपम् तस्य तद्घटितशरीरत्वात् / न चाविद्यानिवृत्त्यैव तन्निरूप्यते तेन रूपेण तस्य तजनकत्वानुपपत्तेः / तत्सम्प्रयोगस्याप्येकस्य दुनिरूपत्वाच / उपसंहारमुद्रयान्तःकरणवृत्तिनिरूपणम् तस्मादृव्यासङ्ग यहिरहावज्ञाननिवृत्तिविरहो यत्रेन्द्रियाणामन्वयव्यतिरेको सा अन्तःकरणवृत्तिरेषितव्या / अन्यथा परमते विज्ञानसाधनादेव व्यवहारोपपत्ती किं विज्ञानेन / किश्च प्यमन्यदेवेन्द्रियत्वमिति वाच्यम् / श्रोत्रे तव मते तदसम्भवात् / इन्द्रियत्वस्य नानात्वेन तन्निरूपितसम्प्रयोगस्यापि नानात्वादननुगमदोषापरिहाराच्च / चक्षुष्ठादिना तुल्यव्यक्तित्वाच्च / तथा चेन्द्रियत्वं न जातिः, परापरभावरहितजातिसमानाधिकरणत्वात् सम्प्रयोगत्ववदिति भावः। नन्वविद्यानिवर्तकमनः संयोगाश्रयत्वमिन्द्रियत्वमिति न ज्ञानापेक्षेति तत्राह-न चाविद्येति / तत्र वक्तव्यम् / किमविद्यानिवर्तकं यन्मनः तत्संयोगाश्रयत्वमिन्द्रियत्वमुताविद्यानिवर्तको यो मनःसंयोगस्तदाश्रयत्वं वा ? नाद्यः आत्मनोऽपीन्द्रियत्वप्रसङ्गात् / द्वितीये मनःसंयोगस्य किं चक्षुमनःसंयोगत्वादिरूपेण कारणत्वमिन्द्रियमनःसंयोगत्वेन वा / आधे कारणतावच्छेद काननुगमदोषः। द्वितीये इन्द्रियत्वे ज्ञाते तत्संयोगत्वेन जनकत्वज्ञानं, तस्मिन् ज्ञाते च तदाश्रयत्वलक्षणेन्द्रियत्वज्ञानमिति परस्पराश्रयः स्थादित्यभिप्रेत्याह-तन रूपेणेति / इन्द्रियार्थसन्निकर्षेष्वपि संयोगादिसाधारणं जातिरुपाधिर्वाऽनुगतं सम्भवतीत्यत आह-तत्सम्प्रयोगस्येति // ननु मन एवाविद्यानिवृत्तिमात्रेऽनुगतं कारणं रूपाद्यविद्यानिवृत्तौ च चक्षुरादिकमपि विशेषकारणमिति चेन्न / व्यासङ्गे मनसश्चक्षुरादेश्च सत्त्वेऽपि कार्यादर्शनात् / ननु तदा मनसश्चक्षुरादिसंयोगाभावात् कार्याभाव इति चेन्न, तस्यातीन्द्रियस्य व्यतिरेकग्रहायोगात् / कार्याभावानुपपत्त्या कारणाभावकल्पनायां प्रत्यक्षतया झटित्युपस्थितानित्यज्ञानाभाव एव कल्प्यतामित्यभिप्रेत्योपसंहरति-- तस्मादिति / तद्वेतोरेवास्त्विति न्यायस्य नात्र प्रसङ्गःजन्यज्ञानासिद्धौ तद्धेतोरेवासिद्धरित्यभिप्रेत्याङ्गीकुत्यापि परमतेऽपीदंदूषणं समानमित्याह-अन्यथेति। ननु परमते